This page has not been fully proofread.

दशकम् - ६९]
 
रासक्रीडावर्णनम् ।
 
२३७
 
टीरसारवन्नवसौरभं तव भुजं वञ्चनेन अन्यापदेशेन सञ्चुचुम्ब । तज्जनितम्
उरुपुलकाङ्करं यस्मिन् ॥ ६ ॥
 
कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं
पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् ।
इन्दिराविकृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे
 
त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ॥ ७ ॥
 
कापीति । तव गण्डभुवि निजगण्डम् आचलितकुण्डलं यथा भवति तथा
सन्निधाय पूगचर्वितरसामृतम् अमृतमयं वीटिकारसमन्वबाप । सम्मदेन प्रमोदा-
तिशयेन उन्मददशान्तरं पूर्वापरानुसन्धानवैधुर्यलक्षणमवस्थान्तरम् ॥ ७ ॥
 
गानमीश! विरतं क्रमेण किल वाद्यमेलनमुपारतं
 
ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः ।
नाविन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं
ज्योतिषामपि कदम्बकं दिवि विलम्वितं किमपरं ब्रुवे ॥ ८ ॥
 
गानमिति । अङ्गनाः ब्रह्मस मदरसेन ब्रह्मानन्दानुभवैरसेन आकुलाः पर-
वशाः केवलं सदसि ननृतुः । नर्तनस्य कैवल्यमेवाह – गानमिति । ज्योतिषां
ग्रहनक्षत्रादीनां कदम्बकमपि दिवि विलम्बितमित्यनेन सूर्योदय विलम्बात् त्रिया-
मायामो द्योत्यते । किमपरं ब्रुवे गानवाद्यादौ प्रमादः नीवीकुन्तलगात्रिकाविश्लथ-
नानवगतिरित्यादि भुविस्थानां पारवश्यं किमर्थमुच्यत इत्यर्थः ॥ ८ ॥
 
मोदसीनि भुवनं विलाप्य विवृतिं समाप्य च ततो विभो !
केलि सम्मृदितनिर्मलाङ्गनवधर्मलेशसुभगात्मनाम् ।
मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित-
स्तावदाकलित मूर्तिरादधिथ मारवरपरमोत्सवान् ॥ ९॥
मोदेति । मोदसीम्नि ब्रह्मानन्दे भुवनं द्रष्टृलोकं विलाप्य मज्जयित्वा
 
१. 'वेन' ग. पाठः. २. 'नाविदन्निति' ग. पाठ:.
 
३.
 
'धी' क. पाठः,