This page has been fully proofread once and needs a second look.

दशकम् - ६९]
 
रासक्रीडावर्णनम् ।
 
२३७
 
टीरसारवन्नवसौरभं तव भुजं वञ्चनेन अन्यापदेशेन सञ्चुचुम्ब । तज्जनितम्

उरुपुलकाङ्कुरं यस्मिन् ॥ ६ ॥
 

 
कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं

पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् ।

इन्दिराविकृहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे
 

त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ॥ ७ ॥
 

 
कापीति । तव गण्डभुवि निजगण्डम् आचलितकुण्डलं यथा भवति तथा

सन्निधाय पूगचर्वितरसामृतम् अमृतमयं वीटिकारसमन्वबावाप । सम्मदेन प्रमोदा-

तिशयेन उन्मददशान्तरं पूर्वापरानुसन्धानवैधुर्यलक्षणमवस्थान्तरम् ॥ ७ ॥
 

 
गानमीश! विरतं क्रमेण किल वाद्यमेलनमुपारतं
 

ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः ।

नाविन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं

ज्योतिषामपि कदम्बकं दिवि विलम्वितं किमपरं ब्ध्रुवे ॥ ८ ॥
 

 
गानमिति । अङ्गनाः ब्रह्मस म्मदरसेन ब्रह्मानन्दानुभवैव[^१]रसेन आकुलाः पर-

वशाः केवलं सदसि ननृतुः । नर्तनस्य कैवल्यमेवाह--गा[^२]नमिति । ज्योतिषां

ग्रहनक्षत्रादीनां कदम्बकमपि दिवि विलम्बितमित्यनेन सूर्योदय विलम्बात् त्रिया-

मायामो द्योत्यते । किमपरं ब्रुवे गानवाद्यादौ प्रमादः नीवीकुन्तलगात्रिकाविश्लथ-

नानवगतिरित्यादि भुविस्थानां पारवश्यं किमर्थमुच्यत इत्यर्थः ॥ ८ ॥
 

 
मोदसीम्नि भुवनं विलाप्य विवृतिं समाप्य च ततो विभो !

केलि सम्मृदितनिर्मलाङ्गनवधर्मलेशसुभगात्मनाम् ।

मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित-

स्तावदाकलित मूर्तिरादधिथ मारवी[^३]रपरमोत्सवान् ॥ ९॥

 
मोदेति । मोदसीम्नि ब्रह्मानन्दे भुवनं द्रष्टृलोकं विलाप्य मज्जयित्वा
 

 
[^
]. 'वेन' ग. पाठः.
[^
]. 'नाविदन्निति' ग. पाठ:ठः
[^३]
.
 
३.
 
'धी' क. पाठः,