This page has not been fully proofread.

नारायणीये
 
पाणिसंकणितकङ्कणं च मुहुरंसलम्बितकराम्बुजं
श्रोणिविम्बचलदम्बरं भजत रासकेलिरसडम्बरम् ॥ ४ ॥
 
वेण्विति।वेणुनादेन कृतेन तानदानेन गाननिदानभूतस्वरप्रदर्शनेन कलेन
कण्ठोत्थिततयातिमधुरेण गानेन रागगतियोजनया रागविशेषमार्गसंयोजनेन च
लोभनीयो यः पादपातः, तत्कृतेन तालमेलनेन मनोहरं रासकेलिरसस्य डम्बरं
परिपोषम् ॥ ४ ॥
 
२२६
 
[ स्कन्धः - १०
 
श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे
नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे ।
सम्मदेन कृतपुष्पवर्षमलमुन्मिषद् दिविषदां कुलं
 
चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् ॥ ५ ॥
 
-
 
श्रद्धयेति । श्रद्धया कौतुकेन विरचितेनानुगानेन परोन्नीतोन्नयनेन कृत-
स्तारतारः क्रमादत्युच्चो मधुरस्वरो यस्मिन्, ललितैरङ्गहारैः अङ्गविक्षेपैः लुलितानि
स्वस्थानात् च्युतानि अङ्गस्थहारमणिभूषणानि यस्मिन्, तस्मिन् नर्तने सति सम्म
देन स्वातिशायिप्रयोगातिशयदर्शन जनितहर्षावेशेन कृतः पुष्पवर्षो येन । अलम्
अतिशयेन उन्मिषद् दर्शनोत्सुकं सवधूकुलं सस्त्रीसमूहं दिविषदां कुलं देवसमूहः
संमुमोह । निलीयमानमिव अदृष्टद्रष्टृदृश्य दर्शनभेदमित्यर्थः ॥ ५ ॥
स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना
कान्तमंसमवलम्बते स्म तब तान्तिभारमुकुलक्षणा ।
काचिदाचलितकुन्तला नवपटीरसारनैवसौरभं
 
वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुरम् ॥ ६॥
 
स्विन्नेति । स्विन्ना स्वेदार्द्रा सन्ना प्राप्तसादा तनुवल्लरी यस्याः सा तथा
तान्तिभारेण क्लमातिशयेन मुकुलितनयना तब कान्तं सुन्दरम् अंसं भुजमूलम्
अवलम्बते स्म आश्रितवती । काचिद् अपरा आचलितकुन्तला विश्लथत्कबरी-
भरा नवपटीरसारेण मालेयेन नवम् अननुभूतचरं सौरभं यस्मिन् । यद्वा नवप-
१. 'घनसौ' क. ग. पाठ:. २. 'रा' घ. ङ. च. पाठः,