This page has been fully proofread once and needs a second look.

नारायणीये
 
पाणिसंक्वणितकङ्कणं च मुहुरंसलम्बितकराम्बुजं

श्रोणिविबिम्बचलदम्बरं भजत रासकेलिरसडम्बरम् ॥ ४ ॥
 

 
वेण्विति।वेणुनादेन कृतेन तानदानेन गाननिदानभूतस्वरप्रदर्शनेन कलेन

कण्ठोत्थिततयातिमधुरेण गानेन रागगतियोजनया रागविशेषमार्गसंयोजनेन च

लोभनीयो यः पादपातः, तत्कृतेन तालमेलनेन मनोहरं रासकेलिरसस्य डम्बरं

परिपोषम् ॥ ४ ॥
 
२२६
 
[ स्कन्धः - १०
 

 
श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे

नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे ।

सम्मदेन कृतपुष्पवर्षमलमुन्मिषद् दिविषदां कुलं
 

चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् ॥ ५ ॥
 
-
 

 
श्रद्धयेति । श्रद्धया कौतुकेन विरचितेनानुगानेन परोन्नीतोन्नयनेन कृत-

स्तारतारः क्रमादत्युच्चो मधुरस्वरो यस्मिन्, ललितैरङ्गहारैः अङ्गविक्षेपैः लुलितानि

स्वस्थानात् च्युतानि अङ्गस्थहारमणिभूषणानि यस्मिन्, तस्मिन् नर्तने सति सम्म
-
देन स्वातिशायिप्रयोगातिशयदर्शन जनितहर्षावेशेन कृतः पुष्पवर्षो येन । अलम्

अतिशयेन उन्मिषद् दर्शनोत्सुकं सवधूकुलं सस्त्रीसमूहं दिविषदां कुलं देवसमूहः

संमुमोह । निलीयमानमिव अदृष्टद्रष्टृदृश्य दर्शनभेदमित्यर्थः ॥ ५ ॥

 
स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना

कान्तमंसमवलम्बते स्म त तान्तिभारमुकुलेक्षणा ।

काचिदाचलितकुन्तला नवपटीरसारनैन[^१]वसौरभं
 

वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुर[^२]म् ॥ ६॥
 

 
स्विन्नेति । स्विन्ना स्वेदार्द्रा सन्ना प्राप्तसादा तनुवल्लरी यस्याः सा तथा

तान्तिभारेण क्लमातिशयेन मुकुलितनयना त कान्तं सुन्दरम् अंसं भुजमूलम्

अवलम्बते स्म आश्रितवती । काचिद् अपरा आचलितकुन्तला विश्लथत्कबरी-

भरा नवपटीरसारेण मालेयेन नवम् अननुभूतचरं सौरभं यस्मिन् । यद्वा नवप-

 
[^
]. 'घनसौ' क. ग. पाठ:. ठः
[^
]. 'रा' घ. ङ. च. पाठः,