2023-02-16 08:52:31 by ambuda-bot
This page has not been fully proofread.
दशकम् - ६९]
रासक्रीडावर्णनम् ।
२३५
केशेति । केशपाशधृतपिञ्छिकावितति मयूरपिञ्छविरचितः परितः परि-
दृश्यमानचन्द्रकः शिरोलङ्कारविशेषो यस्य । गण्डमण्डले सञ्चद् मकरकुण्डलं
यस्य । हारजालैर्वनमालिकया च ललितं सुन्दरम् । समनुलिप्तैरङ्गरागैः कुङ्कुमा-
दिभिः घनं निबिडं सौरभं सौरभ्यं यस्य । पीतचेलोपरि धृतया काञ्चिया मणि-
मेखलया अञ्चितं शोभितम् । उदञ्चदंशु उद्गतमयूखं मणिमयं नूपुरं यस्य एवं
रासकेल्यै परिभृषितं विरचितनैपथ्यं तव रूपं कल्यामहे उपास्महे ॥ १ ॥
तावदेव कृतमण्डने कलित कञ्चुली ककुच मण्डले
गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले ।
अन्तरा सकलसुन्दरीयुगल मिन्दिरारमण ! सञ्चरन्
मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ ! समुपादाः ॥ २ ॥
तावदिति । याबद् धृतरासक्रीडोचितवेषो भगवान्, तावदेव कृतं मण्डनं
येन । कलिता धृता कञ्चुली गात्रिका यत्र तत् कलितकञ्चुलीकं, तत् कुचमण्डलं
यस्य । अथ भूषणानन्तरं परिमण्डले निखातशकुनि समतलदेशे मण्डलाकारेग
स्थिते सकलसुन्दरीयुगलमन्तरा द्वयोर्द्वयोर्मध्ये सञ्चरन् तत्कुचकण्ठकपोलादावभि-
नये च व्यप्रभुजयुगलतया सम्यक् चरन् । मञ्जुलां मनोहराम् ॥ २ ॥
वासुदेव! तव भासमानमिह रासकेलिरससौरभं
दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला ।
वेषभूषणविलासपेशलविलासिनीशतसमावृता
"
नाकतो युगपदागता वियति वेगतोऽयं सुरमण्डली ॥ ३ ॥
वासुदेवेति । रासकेलिरेव रसः सकलेन्द्रियाह्लादकत्वात् तस्य सौरभं
मानोज्ञकं श्रीनारदेनागदितं निवेदितम् आकलव्य श्रुत्वा । वेषभूषगविलासेषु
पेशलैः विदग्धैः बिलासिनीशतैः स्वस्त्रीसहस्रैः । नाकतः स्वर्गाद् बेगतो युगपद्
विमानैर्वियत्यागता सुरमण्डली देवसमूहः ॥ ३ ॥
वेणुनादकृततानदनिकल गानरागगतियोजना-
लोभनीयमृदुपादपातकृततालमेलनमनोहरम् ।
१. 'नादक' घ ङ. च. पाठ:.
+ इदं परिमण्डलविशेषणं स्यात् ।