This page has not been fully proofread.


 
नारायणीये
 
[स्कन्धः - १
 
रसेन ब्रह्मणा तिरस्कृतजाड्यं चिदानन्देकरसमेव भवतीति । स्वच्छत्वादच्छादित-
परसुखचिद्गर्भनिर्भासरूपं तद्वपुर्यदिति सम्बन्धः । तस्मिन्निति 'स वा अयं ब्रह्म
महद्विमृग्यम्', 'कृष्णस्तु भगवान् स्वयम्' इत्यादिभिः परचिदभेदेन प्रतिपादिते
वपुषीत्यर्थः । धन्याः अभ्युपगतभक्तिमार्गतयेतरमार्गोक्तबहुसाधनपरिश्रमरहितोः ।
रमन्ते प्रेमलक्षणां भक्ति कुर्वन्तीत्यर्थः । अत्र हेतुमाह - श्रुतिमतिमधुर इति ।
माधुर्ययुक्तत्वाच्छ्रवणस्मरणादिषु सकलेन्द्रियाह्लादक इत्यर्थः । अत एव सुग्रहे
सुखग्राह्ये विग्रहे मूर्ती ॥ ३ ॥
 
एवं भगवतः शुद्धसत्त्वमयीं मूर्तिमुपपाद्य तस्या निष्कलब्रह्माभेदमुपपादयति-
निष्कम्पे नित्यपूर्ण निरवधिपरमानन्दपीयूषरूपे
निलींना नेकमुक्तावलिभगतमे निर्मलब्रह्मसिन्धौ ।
कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा
 
कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ! ॥ ४ ॥
 
"
 
निष्कम्प इति । तत्र ब्रह्मणः सिन्धुसाम्यमापादयति चतुर्भिर्विशेषणैः । निष्कम्पे
निर्विकारे, अन्यत्रै अक्षोभ्ये गम्भीरे इत्यर्थः । नित्यपूर्णे अखण्डे, अन्यत्र वर्षासु
प्रभूतनानॉनदीजलौघे सति ग्रीष्मे तस्मिन्नसति चैकरूपे । निरवधिः कालतो देशत
उपाधितश्चापरिच्छिन्नः परमानन्द एव पीयूषं मुक्तैरास्वादनीयत्वात् तद्रूपे । अन्यत्र
निरवधिः परमानन्दः स्रक्चन्दनवनितादिसुखातिशायि सुखं यस्मात् तस्य पीयू-
षस्य रूपं प्रकाश उत्पत्तिर्यस्मात् स तथा । निलींना नामपुनरावृत्तिं गतानामने-
केषां मुक्तानां ब्रह्मसायुज्यं प्राप्तानामावलिः समूहः, तेन सुभगतमे अतिमनोहरे ।
अन्येषामपि मुमुक्षाजनक इति भावः । अन्यत्र मुक्तावलिभिः मुक्तारत्ननिकरैः
सुभगतमे शोभिते । निर्मलब्रह्मसिन्धाविति । ब्रह्मणो निर्मलत्वं मायातत्कार्योपरागरा-
हित्यम् । सिन्धौ त्वनाविलत्वम् । एवम्भूते ब्रह्मसिन्धौ यः कल्लोलोल्लासः कल्लोला-
नां तरङ्गाणामुल्लासस्तेर्न तुल्यम् । विमलतरं शुद्धं सत्त्वमित्यर्थः । अयमभिप्रायः
 
"
 
१. 'र्थः। अ' ख. पाठ २. 'ता धन्या र' ख. पाठः,
 
४. 'नाज' ख. पाट:. ५. 'त इत्यर्थः । नि' क. पाठः,
त' ख. पाठः.
 
३. 'त्र सिन्धौ अ' क. पाठ:
६. स्तत्तु' क. पाठः.