This page has not been fully proofread.


 
नारायणीये
 
[स्कन्धः - १
 
रसेन ब्रह्मणा तिरस्कृतजाड्यं चिदानन्देदैकरसमेव भवतीति । स्वच्छत्वादच्छादित-

परसुखचिद्गर्भनिर्भासरूपं तद्वपुर्यदिति सम्बन्धः । तस्मिन्निति 'स वा अयं ब्रह्म

महद्विमृग्यम्', 'कृष्णस्तु भगवान् स्वयम्' इत्यादिभिः परचिदभेदेन प्रतिपादिते

वपुषीत्यर्थः[^१] । धन्याः अभ्युपगतभक्तिमार्गतयेतरमार्गोक्तबहुसाधनपरिश्रमरहितोः ।
ताः[^२ ]।
रमन्ते प्रेमलक्षणां भक्तितिं कुर्वन्तीत्यर्थः । अत्र हेतुमाह - -श्रुतिमतिमधुर इति ।

माधुर्ययुक्तत्वाच्छ्रवणस्मरणादिषु सकलेन्द्रियाह्लादक इत्यर्थः । अत एव सुग्रहे

सुखग्राह्ये विग्रहे मूर्तीतौ ॥ ३ ॥
 

 
एवं भगवतः शुद्धसत्त्वमयीं मूर्तिमुपपाद्य तस्या निष्कलब्रह्माभेदमुपपादयति-
-
 
निष्कम्पे नित्यपूर्णे निरवधिपरमानन्दपीयूषरूपे
निलीं

निर्ली
ना नेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।

कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा
 

कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ! ॥ ४ ॥
 
"
 

 
निष्कम्प इति । तत्र ब्रह्मणः सिन्धुसाम्यमापादयति चतुर्भिर्विशेषणैः । निष्कम्पे

निर्विकारे, अन्यत्रैर[^३] अक्षोभ्ये गम्भीरे इत्यर्थः । नित्यपूर्णे अखण्डे, अन्यत्र वर्षासु

प्रभूतनानॉन[^४]नदीजलौघे सति ग्रीष्मे तस्मिन्नसति चैकरूपे । निरवधिः कालतो देशत

उपाधितश्चापरिच्छिन्नः परमानन्द एव पीयूषं मुक्तैरास्वादनीयत्वात्, तद्रूपे । अन्यत्र

निरवधिः परमानन्दः स्रक्चन्दनवनितादिसुखातिशायि सुखं यस्मात्, तस्य पीयू-

षस्य रूपं प्रकाश उत्पत्तिर्यस्मात्, स तथा । निलींर्लीना नामपुनरावृत्तिं गतानामने-

केषां मुक्तानां ब्रह्मसायुज्यं प्राप्तानामावलिः समूहः, तेन सुभगतमे अतिमनोहरे ।

अन्येषामपि मुमुक्षाजनक इति भावः । अन्यत्र मुक्तावलिभिः मुक्तारत्ननिकरैः

सुभगतमे शोभिते[^५] । निर्मलब्रह्मसिन्धाविति । ब्रह्मणो निर्मलत्वं मायातत्कार्योपरागरा-

हित्यम् । सिन्धौ त्वनाविलत्वम् । एवम्भूते ब्रह्मसिन्धौ यः कल्लोलोल्लासः कल्लोला-

नां तरङ्गाणामुल्लासस्तेर्नन[^६] तुल्यम् । विमलतरं शुद्धं सत्त्वमित्यर्थः । अयमभिप्रायः
 
"
 
[^७]--
 
[^
]. 'र्थः। अ' ख. पाठ २. 'ता धन्या र' ख. पाठः,
 
४. 'नाज
.
[^२]. 'ता धन्या र
' ख. पाट:. ५. 'त इत्यर्थः । नि' क. पाठः,
त' ख. पाठः.
 
.
[^
]. 'त्र सिन्धौ अ' क. पाठ:
६. स्तत्तु
.
[^४]. 'नाज' ख. पाठ:.
[^५]. 'त इत्यर्थः । नि
' क. पाठः.
 

[^६]. 'स्तत्तु' क. पाठः.
[^७]. 'यः त' ख. पाठः.