This page has not been fully proofread.

नारायणाय
 
[स्कन्धः - १०
 
भवानुत्तरमाद्-
अयि कुमारिका ! नैव शङ्कयतां कठिनता मयि प्रेमकातरे ।
माय तु चेतसो वोऽनुष्कृत्तये कृतमिदं मयेत्यचिवान् भवान् ॥ ८ ॥
 

 
अधीति । हे कुमारिकाः ! अबलाः ! प्रेमकातरे प्रणयापायभीरौ मयि
कठिनता निष्करुणता नैव शङ्कयताम् । वो युष्माकं मयि चेतसोऽनुवृत्तये मनस्स-
माधानाय मयेदं तिरोधानं कृतम् ॥ ८ ॥
 
अयि निशम्यतां जीववल्लभाः ! प्रियतमो जनो नेहशो मम ।
तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ! ॥ ९ ॥
 
अयीति । अयि जीवबलमाः ! प्रागनाथाः ! निशम्यतां तत्त्वम् । ममेदृशः
प्रियतमो नास्ति यथा भवत्यः । तत् तस्माद् इह् यमुनातीरेषु सचन्द्रतया रम्यासु
यामिनीषु अनुपरोधं निश्शक मया सह रम्यतामित्यालपः ऊचिषे ॥ ९ ॥
 
इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् ।
कलितकौतुको रासखेलने गुरुपुरीपते! पाहि मां गदात् ॥ १० ॥
 
इतीति । मोदेन मेदुरैः व्याप्तैः । आरमन् क्रीडन् । रासखेलने रासक्री-
ढायां कलितकौतुकः धृताग्रहः ॥ १० ॥
 
इति रासक्रीडायां गोपीनां भगवत्समागमादानन्दपारवश्यवर्णनं
प्रणयकोपवर्णनं भगवत्कृत सान्त्वनवर्णनं च
अष्टषष्टितमं दशकम् ।
 
अथ रासक्रीडां वर्णयति-
केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलं
हारजालवनमालिकाललितमङ्गरागघनसौरभम् ।
पीतचेलधृतकाञ्चिकाञ्चितमुद्ञ्चदंशुमणिनूपुरं
रासकेलिपरिभूषितं तव हि रूपमीश ! कलयामहे ॥ १ ॥