Proofing

✦

This page has been fully proofread once and needs a second look.

नारायणाय
 
[स्कन्धः - १०
 
भवानुत्तरमाद्ह-
-
 
अयि कुमारिका ! नैव शङ्कक्यतां कठिनता मयि प्रेमकातरे ।
माय

मयि
तु चेतसो वोऽनुष्कृवृत्तये कृतमिदं मयेत्ययूचिवान् भवान् ॥ ८ ॥
 
।
 
अधी

 
अयी
ति । हे कुमारिकाः ! अबलाः ! प्रेमकातरे प्रणयापायभीरौ मयि

कठिनता निष्करुणता नैव शङ्कक्यताम् । वो युष्माकं मयि चेतसोऽनुवृत्तये मनस्स-

माधानाय मयेदं तिरोधानं कृतम् ॥ ८ ॥
 

 
अयि निशम्यतां जीववल्लभाः ! प्रियतमो जनो नेहदृशो मम ।

तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ! ॥ ९ ॥
 

 
अयीति । अयि जीवबवलमाः ! प्रागणनाथाः ! निशम्यतां तत्त्वम् । ममेदृशः

प्रियतमो नास्ति यथा भवत्यः । तत् तस्माद् इह्ह यमुनातीरेषु सचन्द्रतया रम्यासु

यामिनीषु अनुपरोधं निश्शकङ्कं मया सह रम्यतामित्यालपः ऊचिषे ॥ ९ ॥
 

 
इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् ।

कलितकौतुको रासखेलने गुरुपुरीपते! पाहि मां गदात् ॥ १० ॥
 

 
इतीति । मोदेन मेदुरैः व्याप्तैः । आरमन् क्रीडन् । रासखेलने रासक्री-
ढा

डा
यां कलितकौतुकः धृताग्रहः ॥ १० ॥
 

 
इति रासक्रीडायां गोपीनां भगवत्समागमादानन्दपारवश्यवर्णनं

प्रणयकोपवर्णनं भगवत्कृत सान्त्वनवर्णनं च

 
अष्टषष्टितमं दशकम् ।
 

 
अथ रासक्रीडां वर्णयति-
-
 
केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलं

हारजालवनमालिकाललितमङ्गरागघनसौरभम् ।

पीतचेलधृतकाञ्चिकाञ्चितमुद्दञ्चदंशुमणिनूपुरं

रासकेलिपरिभूषितं तव हि रूपमीश ! कलयामहे ॥ १ ॥