This page has not been fully proofread.

दशकम् – ६८]
 
रासक्रीडावर्णनम् ।
 
तव विभो ! परा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् ।
गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥ ३ ॥
 
तत्रेति । अपरा तव भुजं गृहीत्वा निजगलान्तरे पर्यवेष्टयद् बबन्ध त्वद्वि-
रहव्यथया निर्गमिष्यन्तं प्राणमारुतं प्रतिनिरुन्धतीव ॥ ३ ॥
 
अपगतत्रपा कापि कामिनी तव मुखाम्बुजात् पूगचर्वितम् ।
प्रतिगृहय्य तद् वऋपङ्कजे निदधती गता पूर्णकामताम् ॥ ४ ॥
 
अपगतेति । प्रतिगृहय्य गृहीत्वा तत् पूगचर्वितं स्ववक्रपङ्कजे निदधती
आस्वादयन्ती पूर्णकामतां सञ्जातजीवनफलतां गता प्राप्ता ॥ ४ ॥
 
विकरुणो वने संविहाय मामपगतोऽसि का त्वामिह स्पृशेत् ।
इति सरोपया तावदेकया सजललोचनं वीक्षितो भवान् ॥ ५ ॥
 
२३३
 
विकरुण इति । वने मां संविहाय अपगतो दूरं गतोऽसि । अतो विक-
रुणो निष्कृपस्त्वमिदानीं किमर्थमागतोऽसि । इह अस्मासु का त्वां स्पृशेदिति
सजललोचनं यथा भवति तथा वीक्षितः ॥ ५ ॥
 
इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे ।
मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥ ६ ॥
 
इतीति । मृदुभिः कुचाम्बरैः उत्तरीयैः कल्पिते आसने घुसृणभासुरे
कुङ्कुमशोभिते ॥ ६ ॥
 
ततश्च सहोपविष्टास्ता भवन्तमाहुरित्याह-
कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते ।
कतिचिदीदृशा मादृशेष्वपीत्यभिहितो भवान् वल्डवीजनैः ॥ ७ ॥
 
कंतिविधेति । इह जगति कतिविधा कृपा । केऽपि सर्वतः सर्वजनेषु
धृतदयोदयाः कृपावन्तः । केचिदाश्रिते जन एव धृतदयोदयाः । कतिचित् केचिद्
मादृशे वाश्रितेष्वपि ईदृशाः भवानिव निष्करुणाः । तत्र तत्त्वं ब्रूहीति शेषः ॥ ७ ॥
 
१. 'ति । त' क. ख. पाठः,