2023-02-16 08:52:31 by ambuda-bot
This page has not been fully proofread.
नारायणीये
तथाव्यथासंकुलमानसानां
वजाइनानां करुणैकसिन्धो ! ।
जगत्रर्यामोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥ ९ ॥
२३२
[स्कन्धः - २०
तथेति । तथाभूतया अनिर्देश्यया व्यथया पीडया संकुलम् आकुलं मानसं
यासाम् । जगत्रयीमोहनः कामः तस्यापि मोहन आत्मा मूर्तिर्यस्य स त्वं मन्दहा-
सी सन् प्रादुरासीः ॥ ९॥
सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् ।
किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात् पालय मारुतेश ! ॥१०॥
सन्दिग्धेति । इतः परमपि नाम तं द्रक्ष्यामि न वेति सन्दिग्धं सन्दर्शनं
यस्य । प्रमदातिभाराद् हर्षावेशेन ॥ १० ॥
इति रासक्रीडायां गोपीनां मदापनोदाय भगवतस्तिरोधानवर्णनं
भगवदन्वेषणवर्णनं भगवदाविभववर्णनं च
सप्तषष्टितमं दशकम् ।
तव विलोकनाद् गोपिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण ! ।
अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ १ ॥
तवेति । प्रभदसंकुलाः प्रमोदाकुलाः संप्लुताः अभिषिक्ताः स्तिमिततां
निश्चलतां दधुः ॥ १ ॥
तदनु काचन त्वत्कराम्बुजं सपदि गृहती निर्विशङ्गितम् ।
घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥ २ ॥
तदन्विति । सपदि दर्शनसमनन्तरमेव इतरासु स्थितासु निर्विशङ्कितं
घने निबिडे पयोधरे त्वत्कराम्बुजस्पर्शज नितानन्दातिशयानुभावेन पुलकेन संवृता
चिरं तस्थुषी स्थितवती ॥ २ ॥
१. 'मीति' र्क. ख. पाठः,