This page has been fully proofread once and needs a second look.

नारायणीये
 
तथाव्यथासंकुलमानसानां
 
व्रजाङ्गनानां करुणैकसिन्धो ! ।
 

जगत्रर्यात्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥ ९ ॥
 
२३२
 
[स्कन्धः - २०
 

 
तथेति । तथाभूतया अनिर्देश्यया व्यथया पीडया संकुलम् आकुलं मानसं

यासाम् । जगत्त्रयीमोहनः कामः तस्यापि मोहन आत्मा मूर्तिर्यस्य स त्वं मन्दहा-

सी सन् प्रादुरासीः ॥ ९॥
 

 
सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् ।

किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात् पालय मारुतेश ! ॥१०॥
 

 
सन्दिग्धेति । इतः परमपि नाम तं द्रक्ष्यामि[^१] न वेति सन्दिग्धं सन्दर्शनं

यस्य । प्रमदातिभाराद् हर्षावेशेन ॥ १० ॥
 

 
इति रासक्रीडायां गोपीनां मदापनोदाय भगवतस्तिरोधानवर्णनं

भगवदन्वेषणवर्णनं भगवदाविर्भाववर्णनं च

 
सप्तषष्टितमं दशकम् ।
 

 
तव विलोकनाद् गोपिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण ! ।

अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ १ ॥

 
तवेति । प्रभदसंकुलाः प्रमोदाकुलाः संप्लुताः अभिषिक्ताः स्तिमिततां

निश्चलतां दधुः ॥ १ ॥
 

 
तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्गिकितम् ।

घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥ २ ॥
 

 
तदन्विति । सपदि दर्शनसमनन्तरमेव इतरासु स्थितासु निर्विशङ्कितं

घने निबिडे पयोधरे त्वत्कराम्बुजस्पर्शज नितानन्दातिशयानुभावेन पुलकेन संवृता

चिरं तस्थुषी स्थितवती ॥ २ ॥
 

 
[^
]. 'मीति' र्क. ख. पाठः,