This page has not been fully proofread.

दशकम् - ६७]
 
रासक्रीडावर्णनम् ।
 
२३१
 
तिरोहित इति । समं जाततापास्तुल्यसन्तापाः समेताः सहिताः परि-
मार्गयन्त्योऽन्वेषमाणाः भवन्तं नापुः किन्तु विषादमापुः ॥ ४ ॥
 
ता विषण्णतया चेतनानपि भवन्तं पप्रच्छुरित्याह-
हा चूत ! हा चम्पक! कर्णिकार ! हा मल्लिके! मालति! वालवल्ल्यः ! ।
किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेषुः ॥ ५ ॥
 
हा चूतेति । हे बालवल्ल्यः! युप्माभिर्नोऽस्माकं हृदयैकचोरः किं बीक्षितः।
त्वत्प्रवणाः त्वदेकचित्ताः ॥ ५ ॥
 
निरीक्षितोऽयं सखि ! पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती ।
त्वां भावनाचक्षुषि वीक्ष्य काचित् तापं सखीनां द्विगुणीचकार ॥ ६ ॥
निरीक्षित इति । हे सखि! अयं पङ्कजाक्षः कृष्णः मम पुरो निरीक्षितः
प्रत्यक्षीकृतः । भावनाचक्षुषि सङ्कल्पात्मके चक्षुषि प्रत्यक्षमिव त्वां वीक्ष्य सखीनां
तापम् आशाजननेन द्विगुणीचकार ॥ ६ ॥
 
त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि ।
विचित्य भूयोऽपि तथैव मानात् त्वया विर्युक्तां ददृशुच राधाम् ॥ ७ ॥
 
त्वदिति । त्वदात्मिकाः भावनाबलेन त्वन्मयतां गताः तव चेष्टितानि
पूतनावधार्जुनभञ्जनादीनि अनुचक्रुः अनुकृतवत्यः । भूयोऽपि त्वां विचित्य अन्वि-
प्य यथान्यासां तथैव मानाद् अहमस्यातिप्रियेत्यभिमानात् त्वया वियुक्तां राधां
ददृशुः ॥ ७ ॥
 
ततः समं ता विपिने समन्तात् तमोवतारावधि मार्गयन्त्यः ।
पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुच जगुर्गुणांस्ते ॥ ८ ॥
 

 
तत इति । ततः समं तया सह ता गोप्यः वने समन्तात् पर्यन्ततः तमो-
वतारावधि चन्द्रास्तमयपर्यन्तं मार्गयन्त्यः अन्वेषमाणाः विमिश्राः सहिताः
विलेपुः सप्रार्थनं सुस्वरं रुरुदुः ॥ ८ ॥
 
१. 'मु' क. घ. पाठ:. २. 'प्रकर्षेण त्व' क. ग. पाठ:. ३. 'न्तं परिमा' ख. पाठः,