This page has been fully proofread once and needs a second look.

२३०
 
यते
 
-
 
नारायणीये
 
[स्कन्धः - १०
 
तासु राधायां भगवतः प्रेमातिशयात् सविशेषं तामभिरमयन्तं भगवन्तं प्रार्थ-

यते--
 
राधातुङ्गपयोधरसोसाधुपरीरम्भलोलुपात्मानम् ।
 

आराधये भवन्तं पवनपुराधीश ! शमय सकलगदान् ॥ १० ॥
 

 
इति रासक्रीडायां गोपीनां भगवत्कृतधर्मोपदेशवर्णनं यमुनापुलिने
 

भगवता सह विहारवर्णनं च
 

 
षट्षष्टितमं दशकम् ।
 

 
स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः ।

असीममानन्दभरं प्रपन्ना महान्तमा पुर्मदमम्बुजाक्ष्यः ॥ १ ॥
 

 
स्फुरदिति । स्फुरत्परानन्दरस आत्मा मूर्तिर्यस्य तेन त्वया समासादिता

प्राप्ता भोगलीला रतिक्रीडा याभि: । असीमम् अनवधिम् आनन्दरसं रतिसु-

खापरपर्यायं ब्रह्मानन्दं प्रपन्ना महान्तं मदमापुः ॥ १ ॥
 

 
तत्प्रकारमाह -
 
-
 
निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।

इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द ! तिरोहितोऽभूः ॥ २ ॥
 

 
निलीयत इति । असौ कृष्णो मय्यमायं निर्व्याजं निलीयते सक्तो

भवति । अन्यासु सौजन्याद्यर्थं मायया प्रणयवानिव । अन्या मयि निलीयते । इति

कलितो धृतोऽभिमानो यासां ता निरीक्ष्य तिरोहितोऽन्तर्हितोऽभूः ॥ २ ॥
 

 
राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे ! ।

भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥ ३ ॥

 
राधेति । अजातगर्वतयातिप्रियाम् ॥ ३ ॥
 

 
तिरोहितेऽथ त्वायवयि जाततापाः समं समेताः कमलायताक्ष्यः ।

ने ने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥ ४ ॥