This page has been fully proofread once and needs a second look.

दशकम् - ६६]
 
रासक्रीडावर्णनम् ।
 
२२९
 
चन्द्रेति । चन्द्रकरस्यामृतमयस्य स्यन्दो द्रवः तेन लसन्तीषु सुन्दरीषु य-

मुनातीरस्थलीषु गोपीजनानामुत्तरीयैरापादित उत्पादितः संस्तरो विष्टरो यस्य स

त्वं न्यषीद उपविष्टोऽभूः ॥ ५ ॥
 

 
सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः ।

गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥ ६ ॥
 

 
सुमधुरेति । सुमधुरैः श्रोत्रानन्दैः नर्मालपनैः क्रीडावचनैः । गाढालिङ्गनैः

क्षीरनीरवदङ्गप्रत्यङ्गसंश्लेषणै: आकुलीचकृषे द्रावयामासिथ ॥ ६ ॥
 

 
वासोहरणदिने यद् वासोहरणं प्रतिश्रुतं तासाम् ।

तदपि विभो ! रसविवशस्वान्तानां कान्तसुवामाःभ्रुवामदधाः ॥ ७ ॥
 

 
वास इति । वासोहरणदिने गिरिजार्चनसमाप्तिदिने प्रतिश्रुतं प्रतिज्ञातं

वासोहरणं तासां नितम्बप्रदेशाद् वसनाक्षेपम् अदधाः कृतवान् ॥ ७ ॥
 

 
कन्दलितधर्मलेशं कुन्दमृदुस्मेरवक्त्रपाथोजम् ।
 

नन्दसुत ! त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥ ८ ॥
 

 
कन्दलितेति । कन्दलिता अङ्कुरिताः घर्मलेशाः स्वेदबिन्दवो यस्मिन् ।

कुन्दकुसुमवद् मृदुस्मेरम् अल्पस्मितं वक्त्रपाथोजं वदनपद्मं यस्य । नन्दिता

हृष्टाः ॥ ८ ॥
 

 
विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् ।

नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ ९ ॥
 

 
विरहेष्विति। शृङ्गारमयः शृङ्गाररसोचितभाषावेषव्यापारस्त्वं विरहेषु स्त्री-

णामङ्गारमयो दहनरूपश्च सन्तापकरत्वात् । सङ्गमेऽपि त्वं नितरामङ्गारमय

इतीदं चित्रम् । हे अङ्ग! त्वं नितरामरमय इत्येवार्थः ॥ ९ ॥