This page has not been fully proofread.

२२८
 
नारायणीये
 
[स्कन्धः - १०
 
उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् ।
 
अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ १ ॥
 
उपयातानामिति । उपयातानां समीपं प्राप्तानां सुदृशां सुन्दरीणाम् अभि-
वाञ्छितं मारोत्सवं विधातुं कर्तुं कृतमतिर्निश्चितबुद्धिरपि प्रथमं ताः गोपीः वामं
प्रतिकूलमिव जगाथ उक्तवान् ॥ १ ॥
 
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् ।
धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ २ ॥
 
-
 
गगनेति । जागथ उक्तवान् । नन्वनुपनीतस्य कुलवधूभिः कामोत्सवोऽध-
र्मस्तत्कर्त्रा प्रोक्त कुलवधूधर्मे कथं मुनीनां विश्वास इत्याशङ्कायामाह – धर्म्यं
खल्विति । ते ईश्वरस्य वचनं धर्म्यं धर्मादनपेतम् । कर्म तु नो विश्वास्यम् । क्वचि-
दधर्मरूपमपि भवति । तेन तव न दोषः, यतो निर्मल:, निर्गुणत्वात् कर्मानधि-
कारी त्वम् ॥ २ ॥
 
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः ।
 
मा मा करुणासिन्धो! परित्यजेत्यतिचिरं विलेपुस्ताः ॥ ३ ॥
 
आकर्ण्यति । ते तव प्रतीपां 'भवतीनां निशि भर्तन् विरहय्येह मत्समी-
पागमनम् अनुचितम् । अतस्त्वरितमात्मगृहं याते' त्यादिरूपतया प्रतिकूलाम् ।
दीनाः क्षीणमानसा मा मास्मान् परित्यजेति विलेपुः रोदनपूर्वकमुक्तवत्यः ॥ ३ ॥
 
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे! त्वम् ।
ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥ ४ ॥
तासामिति । लपितैर्वचनैश्च । ताभिः समं सह कामं यथेच्छम् अभिरन्तुं
क्रीडितुं प्रवृत्तः आरब्धः ॥ ४ ॥
 
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु ।
गोपीजनोत्तरीयैरापादितसंस्तरो न्यषदस्त्वम् ॥ ५ ॥