2023-02-16 08:52:30 by ambuda-bot
This page has not been fully proofread.
रासक्रीडावर्णनम् ।
काचिद् गृहात् किल निरेतुमपारयन्त्य-
-
स्त्वामेव देव ! हृदये सुदृढं विभाव्य ।
देहं विधूय परचित्सुखरूपमेकं
त्वामाविशन् परमिमा ननु धन्यधन्याः ॥ ७ ॥
दशकम् – ६५]
काश्चिदिति । काश्चिद् बन्धुभिर्निषिध्यमानतया गृहाद् निरेतुं निर्गन्तुम्
अपारयन्त्यः अशक्ताः त्वां सुदृढं विभाव्य समाधाय देहं स्थूलं सूक्ष्मं च विधूय
त्यक्त्वा । परचिदिति । सच्चिदानन्दाद्वयं परं ब्रह्माविशन् । धन्यधन्याः अतिश-
येन भाग्यवत्यः ॥ ७॥
जारात्मना न परमात्मतया स्मरन्त्यो
नार्यो गताः परमहंसगतिं क्षणेन ।
तत् त्वां प्रकाशपरमात्मतनुं कथञ्चि-
च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥ ८ ॥
२२७
जारात्मनेति । जारात्मना जारबुद्धया न परमात्मतया किन्तु केवलमनु-
प्यबुद्धया त्वां स्मरन्त्यो नार्यो गोप्यः परमहंसानाम् आत्मानात्मविवेकिनां गतिं
मोक्षं गताः प्राप्ता इति यत् तत् तस्मात् प्रकाशपरमात्मतनुं प्रकटीकृतब्रह्मस्व
रूपं त्वां कथाश्चत् कामाद् द्वेषाद् भयाद्वा चित्ते वहन् चिन्तयन् अमृतं मोक्षम्
अश्नुवीय प्राप्नुयाम् ॥ ८ ॥
3
अभ्यागताभिरभितो व्रजसुन्दरीभि-
मुग्धस्मितार्द्रवदनः करुणावलोकी ।
निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो
विश्वैकहृद्य ! हर मे परमेश ! रोगान् ॥ ९ ॥
अभ्यागताभिरिति । हे विश्वैकहृद्य ! अभितोऽभ्यागताभिः परिवार्य
स्थिताभिः अवेक्ष्यमाणः कटाक्षपात्रीभूतः ॥ ९ ॥
इति रासक्रीडायां गोपीनां भगवत्समीपगमनवर्णनं
पञ्चषष्टितमं दशकमेकोनम् ।