This page has been fully proofread once and needs a second look.

रासक्रीडावर्णनम् ।
 
काश्चिद् गृहात् किल निरेतुमपारयन्त्य-
-

स्त्वामेव देव ! हृदये सुदृढं विभाव्य ।

देहं विधूय परचित्सुखरूपमेकं
 

त्वामाविशन् परमिमा ननु धन्यधन्याः ॥ ७ ॥
 
दशकम् – ६५]
 

 
काश्चिदिति । काश्चिद् बन्धुभिर्निषिध्यमानतया गृहाद् निरेतुं निर्गन्तुम्

अपारयन्त्यः अशक्ताः त्वां सुदृढं विभाव्य समाधाय देहं स्थूलं सूक्ष्मं च विधूय

त्यक्त्वा । परचिदिति । सच्चिदानन्दाद्वयं परं ब्रह्माविशन् । धन्यधन्याः अतिश-

येन भाग्यवत्यः ॥ ७॥
 

 
जारात्मना न परमात्मतया स्मरन्त्यो

नार्यो गताः परमहंसगतिं क्षणेन ।

तत् त्वां प्रकाशपरमात्मतनुं कथञ्चि-

च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥ ८ ॥
 
२२७
 

 
जारात्मनेति । जारात्मना जारबुद्ध्या न परमात्मतया किन्तु केवलमनु-
प्

ष्
यबुद्ध्या त्वां स्मरन्त्यो नार्यो गोप्यः परमहंसानाम् आत्मानात्मविवेकिनां गतिं

मोक्षं गताः प्राप्ता इति यत्, तत् तस्मात् प्रकाशपरमात्मतनुं प्रकटीकृतब्रह्मस्व
-
रूपं त्वां कथाश्चथञ्चित् कामाद् द्वेषाद् भयाद्वा चित्ते वहन् चिन्तयन् अमृतं मोक्षम्

अश्नुवीय प्राप्नुयाम् ॥ ८ ॥
 
3
 

 
अभ्यागताभिरभितो व्रजसुन्दरीभि-

र्
मुग्धस्मितार्द्रवदनः करुणावलोकी ।

निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो

विश्वैकहृद्य ! हर मे परमेश ! रोगान् ॥ ९ ॥
 

 
अभ्यागताभिरिति । हे विश्वैकहृद्य ! अभितोऽभ्यागताभिः परिवार्य

स्थिताभिः अवेक्ष्यमाणः कटाक्षपात्रीभूतः ॥ ९ ॥
 

 
इति रासक्रीडायां गोपीनां भगवत्समीपगमनवर्णनं

 
पञ्चषष्टितमं दशकमेकोनम् ।