This page has not been fully proofread.

२२६
 
नारायणी
 
ता इति । कान्तोपसेवनपराः भर्तृशुश्रूषापराः ॥ ३ ॥
 
काश्चिन्निजाङ्गपरिभूषणमादधाना
वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।
त्वामागता ननु तथैव विभूषिताभ्य-
स्ता एव संरुरुचिरे तव लोचनाय ॥ ४ ॥
 
काश्चिदिति । निजाङ्गपरिभूषणं सर्वावयबभूषणम् आदधानाः कुर्वत्यः
वेणुप्रणादमुपकर्ण्य त्वामागताः प्राप्ताः काश्चित् । कृतार्धभूषाः वेणुप्रणादमुपकर्ण्य
तथैव कृतार्धभूषा एवागताः । तत्र विभूषिताभ्यः सर्वावयवभूषणसबिलम्बाभ्यः ताः
कृतार्धभूषा एवं एता नत्प्रेमातिशयेन विस्मृतभूषणवैकल्या अहो इति ननु तब
लोचनाय संरुरुचिरे तव नयनरुचि विषया बभूवुरित्यर्थः ॥ ४ ॥
 
हारं नितम्बभुवि काचन धारयन्ती
काञ्चीं च कण्ठभुवि देव! समागता त्वाम् ।
हारित्वमात्मजघनस्य मुकुन्द ! तुभ्यं
 
व्यक्तं वभाष इव मुग्धमुखी विशेषात् ॥ ५ ॥
 
[स्कन्धः - १०
 
हारमिति । हारोऽस्त्यस्मिन्निति हारी, तत्त्वं हारित्वं मनोहरत्वं च आत्मनः
स्वस्य जघनत्य विशेषान्मनोहरत्वं मुग्धमुखी तुभ्यं भवते बभाष इव ॥ ५ ॥
 
काचित् कुचे पुनरसज्जितकञ्चुलीका
व्यामोहतः परवधूभिरलक्ष्यमाणा ।
त्वामाययौ निरुपमप्रणयातिभार-
राज्याभिषेकविधये कलशीधरेव ॥ ६ ॥
 
काचिदिति । असज्जितकञ्चुलीका असंयोजितगात्रिका । तस्याः परव-
धूनां च व्यामोहतः । निरुपमेति । प्रणयातिशयरूपे राज्येऽवस्थाप्याभिषेकाय
कुचभररूपकलशीघरेव ॥ ६ ॥