This page has been fully proofread once and needs a second look.

२२६
 
नारायणी
 
ता इति । कान्तोपसेवनपराः भर्तृशुश्रूषापराः ॥ ३ ॥
 

 
काश्चिन्निजाङ्गपरिभूषणमादधाना

वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।

त्वामागता ननु तथैव विभूषिताभ्य-

स्ता एव संरुरुचिरे तव लोचनाय ॥ ४ ॥
 

 
काश्चिदिति । निजाङ्गपरिभूषणं सर्वावयभूषणम् आदधानाः कुर्वत्यः

वेणुप्रणादमुपकर्ण्य त्वामागताः प्राप्ताः काश्चित् । कृतार्धभूषाः वेणुप्रणादमुपकर्ण्य

तथैव कृतार्धभूषा एवागताः । तत्र विभूषिताभ्यः सर्वावयवभूषणसबिविलम्बाभ्यः ताः

कृतार्धभूषा एवं एता त्प्रेमातिशयेन विस्मृतभूषणवैकल्या अहो इति ननु त

लोचनाय संरुरुचिरे तव नयनरुचि विषया बभूवुरित्यर्थः ॥ ४ ॥
 

 
हारं नितम्बभुवि काचन धारयन्ती

काञ्चीं च कण्ठभुवि देव! समागता त्वाम् ।

हारित्वमात्मजघनस्य मुकुन्द ! तुभ्यं
 

व्यक्तं भाष इव मुग्धमुखी विशेषात् ॥ ५ ॥
 
[स्कन्धः - १०
 

 
हारमिति । हारोऽस्त्यस्मिन्निति हारी, तत्त्वं हारित्वं मनोहरत्वं च आत्मनः

स्वस्य जघनत्<flag>त्</flag>य विशेषान्मनोहरत्वं मुग्धमुखी तुभ्यं भवते बभाष इव ॥ ५ ॥
 

 
काचित् कुचे पुनरसज्जितकञ्चुलीका

व्यामोहतः परवधूभिरलक्ष्यमाणा ।

त्वामाययौ निरुपमप्रणयातिभार-

राज्याभिषेकविधये कलशीधरेव ॥ ६ ॥
 

 
काचिदिति । असज्जितकञ्चुलीका असंयोजितगात्रिका । तस्याः परव-

धूनां च व्यामोहतः । निरुपमेति । प्रणयातिशयरूपे राज्येऽवस्थाप्याभिषेकाय

कुचभररूपकलशीघरेव ॥ ६ ॥