This page has been fully proofread once and needs a second look.

रासक्रांडावर्णनम् ।
 
तदिह पशुपरूपी त्वं हि साक्षात् परात्मन् !
 

पवनपुरनिवासिन् ! पाहि मामामयेभ्यः ॥ १० ॥
 
दशकम् - ६५]
 

 
इति गोविन्दपट्टाभिषेकवर्णनं वरुणलोकाद् नन्दानयनवर्णनं च

 
चतुष्ष्टितमं दशकम् ।
 

 
गोपीजनाय कथितं नियमावसाने

मारोत्सवं त्वमथ साधयितुं प्रवृत्तः ।

सान्द्रेण चान्द्रमहसा शिशिरीकृताशे
 

प्रापूरयो मुरलिकां यमुनावनान्ते ॥ १ ॥
 

 
गोपीति । नियमावसाने गिरिजार्चनव्रतसमाप्तौ कथितं प्रतिज्ञातं मारो-

त्सवं रासक्रीडादि । यमुनावनान्ते स्थित्वा मुरलिकां वेणुं प्रापूरयः उदैरयः ॥
 
सम्पू

 
सम्मू
र्छनाभिरुदितस्वरमण्डलाभिः

सम्पूर्छयन्तमखिलं भुवनान्तरालम् ।

त्वद्वेणुनादमुपकर्ण्य विभो ! तरुण्य-

स्तत्तादृशं कमपि चित्तविमोहमापुः ॥ २ ॥
 
२२५
 

 
सम्मूर्छनाभिरिति । उदितानि स्वरमण्डलानि प्रयोगभेदाः यासु

ताभिः सम्मूर्छनाभिः आरोहावरोहणरूपैः सप्तभिः स्वरैः 'क्रमयुक्ताः स्वराः

सप्त मूर्च्छनाः परिकीर्तिताः' इत्युक्तेः । सम्मूर्छयन्तं मोहयन्तम् । तत्तादृशम्

अनुपमम् ॥ २ ॥
 

 
ता गेहकृत्यनिरता स्तनयप्रसक्ताः

कान्तोपसेवनपराश्च सरोरुहाक्ष्यः ।
सर्वे

सर्वं
विसृज्य मुरलीरवमोहितास्ते
 

कान्तारदेशमयि कान्ततनो ! समेताः ॥ ३ ॥
 

 
[^
]. 'त्मा' ग. घ. ङ. च. पाठः,