2023-02-16 08:51:58 by ambuda-bot
This page has not been fully proofread.
दशकम् - १]
भगवन्महिमानुवर्णनम् ।
इति भागवतेोक्तेः । एवम्भूतैर्भक्तैरुपास्यं विष्णुरूपमपि पञ्चविधं पुरुषब्रह्मगिरिश-
विष्णुनिर्गुणभेदात् । तत्र शुद्धसत्त्वमयं विष्णुरूप मेवोपास्यतममिति बोप्पदेवः ।
उपासनक्रमं तु वक्ष्यामः । एतत् सर्वं द्वितीय श्लोकसूचितमुपरि चानुसन्दधतां
सुगमम् ॥ २ ॥
एवं विषयप्रयोजनप्रदर्शनेन श्रोतॄनभिमुखकृत्य तेषामुपासनासिद्धये भगवद्रूपं
वर्णयन् भगवन्तं स्तौति –
-
सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावद्
भूतैर्भूतेन्द्रियैस्ते बटुरिति बहुशः श्रूयते व्यासवाक्यम् ।
तत् स्वच्छत्वाद् यदच्छादित परसुखाचदर्भनिर्भासरूपं
तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ ३ ॥
-
सत्त्वमिति । तत् प्रसिद्धम् । पराभ्यां रजस्तमोभ्याम् । परिकलनम् इतरेतरमे-
लनं, तदभावोऽपरिकलनं, तेन । निर्मल शुद्ध सत्त्वं यत्, तेन तावादति तेनैवो-
पादानकारणेन। भूतैर्महदादिक्रमेणोत्पन्नैः । भूतेन्द्रियैः पञ्चभूतैरेकादशेन्द्रियः । ए
तच्च प्राणादीनामप्युपलक्षणम् । हे भूमन्निति सिंहावलोकितन्यायेनोपारस्थमुपादीयते ।
एतैः स्वेच्छया विराचितं ते तव वपुलीलाशरीरमित्यस्मिन्नर्थे प्रमाणतया व्यासस्य
'मुनीनामप्यहं व्यास' इति तवात्मत्वेनाभिमतस्य वाक्यम् । बहुशो वारंवारं पुराणेषु
श्रूयत इत्यर्थः । वाक्यं च – 'जगृहे पौरुष रूपम्', 'विशुद्धं सत्त्वमूर्जितम्', 'सत्त्वं
विशुद्धं क्षेमाय', 'नारायणकलात्मकम्', 'श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः
इत्यादि । तद् बहुशः श्रुतं वपुः । स्वच्छत्वात् स्फटिकवदतिनिर्मलतया । अच्छादि-
ता अनुपहिता या परसुखचित् चिदानन्दैकरसं ब्रह्म, सा प्रतिबिम्बतः प्रविष्टा गर्ने
यस्य, तदच्छादितपर सुखचिद्दर्भम् अत एव निर्भसरूपं च । वपुर्विशेषणमे
तत् । अयं भावः – शुद्धसत्त्वमयस्य वपुषोऽति स्वच्छतया तत्प्रविष्टया परानन्द-
चिदा तन्निर्भास्यांशस्य जाड्यस्य तिरस्कृतत्वात् परसुखचिदेकतामापन्नामिति ।
तदुक्तममृततरङ्गिण्यां – त्वद्वपुरति स्वच्छता स्वस्मिन् प्रतिफलता चिदानन्दैक-
"
-
१. 'र्थः । ज' ख. पाठ: २. 'दि वाक्यम् । त' ख. पाठः,