This page has not been fully proofread.

दशकम् - १]
 
भगवन्महिमानुवर्णनम् ।
 
इति भागवतेोतोक्तेः । एवम्भूतैर्भक्तैरुपास्यं विष्णुरूपमपि पञ्चविधं पुरुषब्रह्मगिरिश-

विष्णुनिर्गुणभेदात् । तत्र शुद्धसत्त्वमयं विष्णुरूप मेवोपास्यतममिति बोप्पदेवः ।

उपासनक्रमं तु वक्ष्यामः । एतत् सर्वं द्वितीय श्लोकसूचितमुपरि चानुसन्दधतां

सुगमम् ॥ २ ॥
 

 
एवं विषयप्रयोजनप्रदर्शनेन श्रोतॄनभिमु<flag>खी</flag>कृत्य तेषामुपासनासिद्धये भगवद्रूपं

वर्णयन् भगवन्तं स्तौति
 
-
 
--
 
सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावद्

भूतैर्भूतेन्द्रियैस्ते बटुवपुरिति बहुशः श्रूयते व्यासवाक्यम् ।

तत् स्वच्छत्वाद् यदच्छादित परसुखाचदचिद्गर्भनिर्भासरूपं

तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ ३ ॥
 
-
 

 
सत्त्वमिति । तत् प्रसिद्धम् । पराभ्यां रजस्तमोभ्याम् । परिकलनम् इतरेतरमे-

लनं, तदभावोऽपरिकलनं, तेन । निर्मलं शुद्धं सत्त्वं यत्, तेन तावादति तेनैवो-

पादानकारणेन। भूतैर्महदादिक्रमेणोत्पन्नैः । भूतेन्द्रियैः पञ्चभूतैरेकादशेन्द्रियःयैः । ए
-
तच्च प्राणादीनामप्युपलक्षणम् । हे भूमन्निति सिंहावलोकितन्यायेनोपारस्थमुपादीयते ।

एतैः स्वेच्छया विराचितं ते तव वपुर्लीलाशरीरमित्यस्मिन्नर्थे प्रमाणतया व्यासस्य

'मुनीनामप्यहं व्यास' इति तवात्मत्वेनाभिमतस्य वाक्यम् । बहुशो वारंवारं पुराणेषु

श्रूयत इत्यर्थः । वाक्यं च--'जगृहे पौरुष रूपम्', 'विशुद्धं सत्त्वमूर्जितम्', 'सत्त्वं

विशुद्धं क्षेमाय', 'नारायणकलात्मकम्', 'श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः
'
इत्यादि । तद् बहुशः श्रुतं वपुः । स्वच्छत्वात् स्फटिकवदतिनिर्मलतया । अच्छादि-

ता अनुपहिता या परसुखचित् चिदानन्दैकरसं ब्रह्म, सा प्रतिबिम्बतः प्रविष्टा गर्ने
भे
यस्य, तदच्छादितपर सुखचिद्र्भम्, अत एव निर्भासरूपं च । वपुर्विशेषणमे
-
तत् । अयं भावः--शुद्धसत्त्वमयस्य वपुषोऽति स्वच्छतया तत्प्रविष्टया परानन्द-

चिदा तन्निर्भास्यांशस्य जाड्यस्य तिरस्कृतत्वात् परसुखचिदेकतामापन्नामिति ।

तदुक्तममृततरङ्गिण्यां--त्वद्वपुरति स्वच्छतातया स्वस्मिन् प्रतिफलता चिदानन्दैक-
"
 
-
 

 
[^
]. 'र्थः । ज' ख. पाठ: .
[^
]. 'दि वाक्यम् । त' ख. पाठः,
 
.