This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - १०
 
कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषण ।
नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥ ६ ॥
 
२२४
 
कदाचिदिति । अन्तर्यमुनं यमुनायाम् । वारुणपूरुषेण वरुणदूतेन । कार-
णमर्त्यरूप: भूभारहरणायोपात्तमनुष्यदेहो वारुणीं पुरीमगाः ॥ ६ ॥
 
ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् ।
उपागतस्तत्क्षणमात्मगेहं पितावदत् तच्चरितं निजेभ्यः ॥ ७ ॥
 
ससम्भ्रममिति । जलाधिपेन वरुणेन ससम्भ्रमं त्वदर्शनजातसम्भ्रमं प्रपू
जितः । तातं नन्दम् । तच्चरितं नन्दहरणरूपम् ॥ ७ ॥
 
हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् ।
निरीक्ष्य विष्णो ! परमं पदं तद् दुरापमन्यैस्त्वमदीदृशस्तान् ॥ ८ ॥
 
हरिमिति । एवमादिप्रभावैर्भवन्तं हरिं विनिश्चित्य भवतः पदं परं ब्रह्म,
तदालोकने बद्धतृष्णान् परमं पदं ब्रह्म अदीदृशः प्रदर्शयामासिथ ॥ ८ ॥
 
स्फुरत्परानन्दरसप्रवाहह्मपूर्णकैवल्यमहापयोधौ ।
चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन् ! पुनरुद्धृतास्ते ॥ ९ ॥
 
स्फुरदिति । परमानन्दामृतप्रवाहपूर्णे कैवल्याख्ये महार्णवे ॥ ९ ॥
त्वं श्रीकृष्णः साक्षात् परमात्मैव, भक्तेभ्यः करामलकवत् स्वस्वरूपब्रह्मप्रद-
र्शकत्वादित्याह-
करबदरवदेवं देव ! कुत्रावतारे
 
निजपदमनवाप्यं दर्शितं भक्तिभाजाम् ।
 
१. 'ष्णोः' क. पाठः,