This page has been fully proofread once and needs a second look.

दशकम् - ६४]
 
गोविन्दपट्टाभिषेकवर्णनम् ।
 
आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।
 

विश्वेश्वरं त्वामभिमत्य विश्वे नन्दं भवज्जातकमन्वपृच्छन् ॥ १ ॥
 

 
आलोक्येति । विश्वे सर्वे गोपालकास्तवोच्चैः उत्कृष्टं प्रभावमालोक्य त्वां
[^१]
विश्वेश्वरमवबुध्य नन्दं प्रति भवतो जातकमन्वपृच्छन् ॥ १ ॥
 

 
गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।

पूर्वाधिकस्त्वय्यनुराग एषामैधिष्ट तावद् बहुमानभारः ॥ २ ॥
 
२२३
 

 
गर्गोदित इति । तातेन नन्देन गर्गोदितः 'जेप्यति बहुतरदैत्यान्' (द.४४.

श्लो. ८) इत्येवंरूपः तव प्रभावो निजाय वर्गाय गोपसमूहाय निर्गदित उपदिष्टः ॥
 

 
ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या ।

उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥ ३ ॥
 

 
तत इति । ततः अवमानेन पराजयेन उदिततत्त्वबोधः मदर्थमवतीर्णो

मत्स्वाम्ययमिति । दिव्यगवी सुरभिः, तथा सह ॥ ३ ॥
 

 
स्नेहस्नुतैस्त्वां सुरभिः पयोभिर्गोविन्द नामाङ्कितमभ्यपिञ्चत् ।

ऐरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥ ४ ॥
 
,
 

 
स्नेहेति । स्नेहेन स्नुतैः क्षरितैः सुरभिरभ्यषिञ्चद्, अत एव गोविन्दना-

माङ्कितम् इन्द्रोऽपि दिव्यगङ्गायाः पाथोभिः जलैः ॥ ४ ॥
 

 
जगत्त्रयेशे त्वयि गोकुलेश[^२]तयाभिषिक्ते सति गोपवाटः ।

नाकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥ ५ ॥
 

 
जगदिति । त्वयि गोकुलेशतयाभिषिक्ते सति गोपवाटो व्रजः नाके स्वर्गे ॥
 

 
[^
]. 'त्वामभिमत्योद्दिश्य न' ख. ग. पाठ:.
 
ठः
[^
]. 'शे तथाभि' ग. घं. ङ. च. पाठः,