This page has not been fully proofread.

२२२
 
अहह धाष्टर्यममुष्य बढोगिरिं व्यथितवाहुरसाववरोपयेत् ।
इति हरिस्त्वयि बद्धविगर्हणो दिवस सप्तकमुग्रमवर्षयत् ॥ ७ ॥
 
नारायणीये
 
[स्कन्धः - १०
 
अहहेति । व्यथितः प्राप्तसादो बाहुर्यस्य । अवरोपयेद् अधः स्थापयेत् ।
बद्धविगर्हणः सञ्जातनिन्दः हरिः इन्द्रः दिवससप्तकमुग्रमवर्षयत् ॥ ७ ॥
अचलति त्वयि देव! पाप गलितसर्वजले च धनोत्करे ।
अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितीः समुपाद्रवत् ॥ ८ ॥
 
अचलतीति । त्वयि पात् स्वस्थानात् पदप्रमाणं देशमपि अचलात
अगच्छति सति गलितसर्वजले निस्सारे अत एव मरुता वायुना अपहृते त्वत्सका-
शाद् अभिशङ्कितधीर्भंतः । अथवा त्वदभिशङ्किता विष्णुः स्वयमयमिति सशङ्का
धर्यिस्य । समुपाद्रवत् सम्प्राप्तवान् ॥ ८ ॥
 
शममुपेयुपि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते ।
भुवि विभो ! समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ ९ ॥
 
शममिति । उपेयुषि प्राप्तवति । भुवि समुपाहितभूधरः यथास्थानं निक्षि-
प्तगोवर्धनः त्वं परिरेभिषे आश्लिष्टोऽभूः ॥ ९ ॥
 
१. 'तू त्वद् अ' ख. पाठ:.
 
धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः ।
इति नुतस्त्रिदशैः कमलापते! गुरुपुरालय ! पालय मां गदात् ॥ १० ॥
धरणिमिति । पुरा वराहावतारे ॥ १० ॥
 
इति गोवर्धनोद्धरणवर्णनं त्रिषष्टितमं दशकम् ।