This page has been fully proofread once and needs a second look.

२२२
 
अहह धार्ष्टर्ट्यममुष्य बढोवटोर्गिरिं व्यथितवाहुरसाववरोपयेत् ।

इति हरिस्त्वयि बद्धविगर्हणो दिवस सप्तकमुग्रमवर्षयत् ॥ ७ ॥
 
नारायणीये
 
[स्कन्धः - १०
 

 
अहहेति । व्यथितः प्राप्तसादो बाहुर्यस्य । अवरोपयेद् अधः स्थापयेत् ।

बद्धविगर्हणः सञ्जातनिन्दः हरिः इन्द्रः दिवससप्तकमुग्रमवर्षयत् ॥ ७ ॥

 
अचलति त्वयि देव! पापपदात् पदं गलितसर्वजले च धनोत्करे ।

अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितीःतधीः समुपाद्रवत् ॥ ८ ॥
 

 
अचलतीति । त्वयि पापदात् स्वस्थानात् पदप्रमाणं देशमपि अचलात
लति
अगच्छति सति गलितसर्वजले निस्सारे अत एव मरुता वायुना अपहृते त्वत्सका-

शाद्[^१] अभिशङ्कितधीर्भंभीतः । अथवा त्वदभिशङ्किता विष्णुः स्वयमयमिति सशङ्का
धर्यि

धीर्य
स्य । समुपाद्रवत् सम्प्राप्तवान् ॥ ८ ॥
 

 
शममुपेयुपि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते ।

भुवि विभो ! समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ ९ ॥
 

 
शममिति । उपेयुषि प्राप्तवति । भुवि समुपाहितभूधरः यथास्थानं निक्षि-

प्तगोवर्धनः त्वं परिरेभिषे आश्लिष्टोऽभूः ॥ ९ ॥
 
१. 'तू त्वद् अ' ख. पाठ:.
 

 
धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः ।

इति नुतस्त्रिदशैः कमलापते! गुरुपुरालय ! पालय मां गदात् ॥ १० ॥

 
धरणिमिति । पुरा वराहावतारे ॥ १० ॥
 

 
इति गोवर्धनोद्धरणवर्णनं त्रिषष्टितमं दशकम् ।
 

 
[^१]. 'तू त्वद् अ' ख. पाठः