This page has not been fully proofread.

दशकम् - ६३]
 
गोवर्धनोद्धरणवर्णनम् ।
 
२२१
 
कुल इति । इह कुले गोत्रः पर्वतो दैवतम् । स गोवर्धनो गोत्रशत्रोरिन्द्रा-
जातां विहतिं नाशं रुन्ध्यात् । अस्मिन् मदुक्ते वः कः संशयः, यतो गोत्राणाद्
गोत्रो गोवर्धन इति चास्य संज्ञा । उदमुमूल उन्मूलितवानसि ॥ ३ ॥
 
तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्
सिकतिलमृदुदेशे दूरतो वारितापे ।
परिकरपरिमिश्रान् धेनुगोपानधस्ता-
दुपनिधद्धत्था हस्तपद्मेन शैलम् ॥ ४ ॥
 
तदन्विति । सिकतिले बालुकाप्राये मृदुनि स्निग्धे देशे वारिता बहिष्कृता
आपो यस्मात् तत्र गिरिवरस्याधस्तात् परिकरैः शिक्यभाण्डादिभिः परिमिश्रान्
उपनिदधत् प्रवेशयन् अधत्था धृतवान् ॥ ४ ॥
 
भवति विधृतशैले बालिकाभिर्वयस्यै-
रपि विहितविलासं केलिलापादिलोले ।
सविधमिलितधेनूरेकहस्तेन कण्डू-
यति सति पशुपालास्तोष पन्त सर्वे ॥ ५ ॥
 
भवतीति । केलिलापादौ क्रीडा सल्लांपादौ लोले सकुतुके तोषं सन्तोषमै-
पन्त । बालिकाबालनर्मालापैकहस्तधेनुकण्डूयनादिभिरपगताचलपतनभयाः सन्तोषं
प्राप्ता इत्यर्थः ॥ ५ ॥
 
अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् ।
किमिदमद्भुतमद्रिवलं न्विति त्वदवलोकिभिराकथि गोपकैः ॥ ६ ॥
 
अतीति । करसरोरुहि कराब्जे धरते दधाति, किमिदमद्रेर्बलं पक्षरहित-
स्याप्युड्डयनशक्तिर्नु इत्याकथि कथ्यते स्म ॥ ६ ॥
 
१. 'वा (च्य? स्य) सं' ख, पाठ:.