This page has been fully proofread once and needs a second look.

दशकम् - ६३]
 
गोवर्धनोद्धरणवर्णनम् ।
 
२२१
 
कुल इति । इह कुले गोत्रः पर्वतो दैवतम् । स गोवर्धनो गोत्रशत्रोरिन्द्रा-

ज्
जातां विहतिं नाशं रुन्ध्यात् । अस्मिन् मदुक्ते वः कः संशयः, यतो गोत्राणाद्

गोत्रो गोवर्धन इति चा[^१]स्य संज्ञा । उदमुमूल उन्मूलितवानसि ॥ ३ ॥
 

 
तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्

सिकतिलमृदुदेशे दूरतो वारितापे ।

परिकरपरिमिश्रान् धेनुगोपानधस्ता-

दुपनिधद्दधदधत्था हस्तपद्मेन शैलम् ॥ ४ ॥
 

 
तदन्विति । सिकतिले बालुकाप्राये मृदुनि स्निग्धे देशे वारिता बहिष्कृता

आपो यस्मात् तत्र गिरिवरस्याधस्तात् परिकरैः शिक्यभाण्डादिभिः परिमिश्रान्

उपनिदधत् प्रवेशयन् अधत्था धृतवान् ॥ ४ ॥
 

 
भवति विधृतशैले बालिकाभिर्वयस्यै-

रपि विहितविलासं केलिलापादिलोले ।

सविधमिलितधेनूरेकहस्तेन कण्डू-

यति सति पशुपालास्तोषमैषन्त सर्वे ॥ ५ ॥
 

 
भवतीति । केलिलापादौ क्रीडा सल्लांलाँपादौ लोले सकुतुके तोषं सन्तोषमै-

न्त । बालिकाबालनर्मालापैकहस्तधेनुकण्डूयनादिभिरपगताचलपतनभयाः सन्तोषं

प्राप्ता इत्यर्थः ॥ ५ ॥
 

 
अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् ।

किमिदमद्भुतमद्रिलं न्विति त्वदवलोकिभिराकथि गोपकैः ॥ ६ ॥
 

 
अतीति । करसरोरुहि कराब्जे धरते दधाति, किमिदमद्रेर्बलं पक्षरहित-

स्याप्युड्डयनशक्तिर्नु इत्याकथि कथ्यते स्म ॥ ६ ॥
 

 
[^
]. 'वा (च्य? स्य) सं' ख, पाठ:.
 
ठः