2023-02-16 08:52:30 by ambuda-bot
This page has not been fully proofread.
२२०
नारायणीये
[स्कन्धः - १०
सुरेन्द्रः क्रुद्धवेद् द्विजकरुणया शैलकृपया-
प्यनातकोऽस्माकं नियत इति विश्वास्य पशुपान् ।
अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन्
मरुद्गेहाश! प्रणुद मुरवैरिन् ! मम गान् ॥ १० ॥
सुरेन्द्र इति । आतङ्कात् सङ्कटादन्योऽनातङ्कः सुखं नियतो निश्चितः ।
गिरिभिदिन्द्रः कुपितः किं नायात इति सञ्चिन्त्य निवसन् । प्रणुद त्यज ॥ १० ॥
इति इन्द्रयागविघातवर्णनं द्विषष्टितमं दशकम् ।
दहशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः ।
सुषमया भवदङ्गतुलां गता जपढ़ोपरि वारिधरास्त्वया ॥ १ ॥
ढदृशिर इति । अक्षतेनाविच्छिन्नेन स्तनितेन जृम्भितेन मेघव्याप्त्या च
कम्पिता दिक्तटाः तत्स्थाश्चराचरा यैः । सुषमया शोभया भवदङ्गस्य तुलामुपमां
गता वारिधरास्त्वया ब्रजपदस्य त्वद्गृहस्योपरि दहशिरे अदृश्यन्त ॥ १ ॥
विपुलकरकमिस्तोयधारानिपाते-
दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।
कुपितहरिकृतान्नः पाहि पाहीति तेषां
वचनमजित ! शृण्वन् मा विभीतेत्यभाणीः ॥ २ ॥
विपुलेति । विपुलकरकभित्रैः स्थूलजलशर्करामिश्रैः । कुपितेन हरिणेन्द्रेण
कृताद् वर्षादिति शेषः । मा बिभीत भयं मा कुरुतेत्यभाणीरवादीः ॥ २ ॥
कुल इह खलु गोत्रो दैवतं गोत्रशत्रो-
विहतिमिह स रुन्ध्यात् को नु वः संशयोऽस्मिन् ।
इति सहसितवादी देव! गोवर्धनाद्रि
त्वरितमुदमुमूलो मूलतो वाल! दोर्भ्याम् ॥ ३ ॥