This page has been fully proofread once and needs a second look.

२२०
 
नारायणीये
 
[स्कन्धः - १०
 
सुरेन्द्रः क्रुद्धवेश्चेद् द्विजकरुणया शैलकृपया-

प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् ।

अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन्

मरुद्गेहाधीश! प्रणुद मुरवैरिन् ! मम गागदान् ॥ १० ॥
 

 
सुरेन्द्र इति । आतङ्कात् सङ्कटादन्योऽनातङ्कः सुखं नियतो निश्चितः ।

गिरिभिदिन्द्रः कुपितः किं नायात इति सञ्चिन्त्य निवसन् । प्रणुद त्यज ॥ १० ॥
 

 
इति इन्द्रयागविघातवर्णनं द्विषष्टितमं दशकम् ।
 
दह

 
ददृ
शिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः ।

सुषमया भवदङ्गतुलां गता व्रजपढ़ोदोपरि वारिधरास्त्वया ॥ १ ॥
 

 
दृशिर इति । अक्षतेनाविच्छिन्नेन स्तनितेन जृम्भितेन मेघव्याप्त्या च

कम्पिता दिक्तटाः तत्स्थाश्चराचरा यैः । सुषमया शोभया भवदङ्गस्य तुलामुपमां

गता वारिधरास्त्वया ब्रजपदस्य त्वद्गृहस्योपरि ददृशिरे अदृश्यन्त ॥ १ ॥

 
विपुलकरकमिश्रैस्तोयधारानिपातेतै-

र्
दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।

कुपितहरिकृतान्नः पाहि पाहीति तेषां
 

वचनमजित ! शृण्वन् मा विभीतेत्यभाणीः ॥ २ ॥
 

 
विपुलेति । विपुलकरकभित्श्रैः स्थूलजलशर्करामिश्रैः । कुपितेन हरिणेन्द्रेण

कृताद् वर्षादिति शेषः । मा बिभीत भयं मा कुरुतेत्यभाणीरवादीः ॥ २ ॥

 
कुल इह खलु गोत्रो दैवतं गोत्रशत्रो-

र्
विहतिमिह स रुन्ध्यात् को नु वः संशयोऽस्मिन् ।

इति सहसितवादी देव! गोवर्धनाद्रि
 
रिं
त्वरितमुदमुमूलो मूलतो वाबाल! दोर्भ्याम् ॥ ३ ॥