2023-02-16 08:52:29 by ambuda-bot
This page has not been fully proofread.
दशकम् - ६२]
इन्द्रयागविघातवर्णनम् ।
२१९
कारमवोचः । इह् मे निगदितं किं वितथमसत्यम् । अयं मूर्तिमत्त्वेन दृश्यमानो
गोत्रो गोवर्धनाख्यो गोत्रद्विषि इन्द्रे चापि कुपिते रक्षितुमलं शक्तः ॥ ६ ॥
परिप्रीता याताः खलु भवदुपेता व्रजजुषो
वजं यावत् तावन्निजमखविभङ्गं निशमयन् ।
भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो
न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥ ७ ॥
परिप्रीता इति । निजमखविभङ्गं निशमयन् शृण्वन् भवन्तं श्रीकृष्णं
विष्णुं जानन्नपि अधिकरजसा तत्कार्यरागादिभिराकान्तं हृदयं यस्य सः निजम
खविभङ्गं न सेहे । त्वदुपरचिता त्वत्कृता आत्मोन्नतिरैन्द्रं पदं यस्य ॥ ७ ॥
मनुष्यत्वं यातो मधुभिदापि देवेष्वविनयं
विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा ।
ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति
प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥ ८ ॥
मनुष्यत्वमिति । मधुभिद् विष्णुरपि मनुष्यत्वं यातो निकृष्टो जातः । अयं
मधुभिच्चेद् देवेष्वविनयं न विधत्ते, यदि चेद् विधत्ते तर्हि न मधुभिदयमिति
भावः । एवं चेत् त्रिदशसदसां देवसभानां कोऽप्यनिर्देश्यो महिमा नष्ट एव ।
पशुपहतकस्य गोपालाधमस्य कृष्णस्य ॥ ८ ॥
त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि
पहिण्वन् विभ्राणः कुलिशमयमभ्रेभगमनः ।
प्रतस्थेऽन्यैरन्तर्दहन मरुदाद्यैर्विहसितो
भवन्माया नैव त्रिभुवनपते ! मोहयति कम् ॥ ९ ॥
त्वदिति । प्रहिण्वन् मुञ्चन् अभ्रेभगमन ऐरावतमारूढः अन्यैर्दहनमरुदा-
द्यैरग्निवाय्वादिभिरन्तर्हृदि विहसितः परिहसितः । भवन्माया कं नैव मोह-
यति ॥ ९ ॥
.
१. 'न मो' ग. पाठः.