This page has been fully proofread once and needs a second look.

दशकम् - ६२]
 
इन्द्रयागविघातवर्णनम् ।
 
२१९
 
कारमवोचः । इह् मे निगदितं किं वितथमसत्यम् । अयं मूर्तिमत्त्वेन दृश्यमानो

गोत्रो गोवर्धनाख्यो गोत्रद्विषि इन्द्रे चापि कुपिते रक्षितुमलं शक्तः ॥ ६ ॥
 

 
परिप्रीता याताः खलु भवदुपेता व्रजजुषो
 

व्र
जं यावत् तावन्निजमखविभङ्गं निशमयन् ।

भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो
 

न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥ ७ ॥
 

 
परिप्रीता इति । निजमखविभङ्गं निशमयन् शृण्वन् भवन्तं श्रीकृष्णं

विष्णुं जानन्नपि अधिकरजसा तत्कार्यरागादिभिराकाक्रान्तं हृदयं यस्य सः निजम
-
खविभङ्गं न सेहे । त्वदुपरचिता त्वत्कृता आत्मोन्नतिरैन्द्रं पदं यस्य ॥ ७ ॥
 

 
मनुष्यत्वं यातो मधुभिदापि देवेष्वविनयं
 

विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा ।

ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति
 

प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥ ८ ॥
 

 
मनुष्यत्वमिति । मधुभिद् विष्णुरपि मनुष्यत्वं यातो निकृष्टो जातः । अयं

मधुभिच्चेद् देवेष्वविनयं न विधत्ते, यदि चेद् विधत्ते तर्हि न मधुभिदयमिति

भावः । एवं चेत् त्रिदशसदसां देवसभानां कोऽप्यनिर्देश्यो महिमा नष्ट एव ।

पशुपहतकस्य गोपालाधमस्य कृष्णस्य ॥ ८ ॥
 

 
त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि
 

प्र
हिण्वन् विभ्राणः कुलिशमयमभ्रेभगमनः ।

प्रतस्थेऽन्यैरन्तर्दहन मरुदाद्यैर्विहसितो
 

भवन्माया नैव त्रिभुवनपते ! मोहयति कम् ॥ ९ ॥
 

 
त्वदिति । प्रहिण्वन् मुञ्चन् अभ्रेभगमन ऐरावतमारूढः अन्यैर्दहनमरुदा-

द्यैरग्निवाय्वादिभिरन्तर्हृदि विहसितः परिहसितः । भवन्माया कं नै[^१]व मोह-

यति ॥ ९ ॥
 
.
 

 
[^
]. 'न मो' ग. पाठः.