This page has not been fully proofread.

नारायणीये
 
[स्कन्धः - १०
 
इतीति । धिग् अहो अन्धपरम्परा महतां मनोऽपि स्पृशति, यतो मघ-
वजनिता बृष्टिरित्येतन्नो सत्यम् । यद् यस्माज्जीवानामदृष्टं कर्मफलं खलु वृष्टिं
सृजति, न मघवा । सोऽप्यदृष्टेनैवैन्द्रं पद्माप्तः । अत्र हेतुमाह - महारण्य इति ।
अकृतेन्द्रयागानां वृक्षाणामपि वृष्टिकृतयोगक्षेमदर्शनादित्यर्थः ॥ ३ ॥
 
२१८
 
इदं तावत् सत्यं यदिह पशवो नः कुलधनं
तदाजीव्यायासौ वलिरचलभर्त्रे समुचितः ।
सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले
 
ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनान् ॥ ४ ॥
 
इदमिति । यदिहोक्तं पशवो नः कुरुधनमिति, तदिदं तावत् सत्यम् ।
अतस्तदाजव्याय तृणसलिलसम्पत्तयेऽसौ प्रारब्धो बलिरचलभर्त्रे गोवर्धनाय,
यतोऽचलो नस्तृणं जलं च ददाति, अतः समुचितः । किञ्च धरणिदेवा ब्राह्मणाः,
अतस्तेऽप्याराध्याः पूजनीया इति जगदिथ ॥ ४ ॥
 
भवद्राचं श्रुत्वा वहुमतियुतास्तेऽपि पशुपा
द्विजेन्द्रानर्चन्तो वलिमददुरुच्चैः क्षितिभृते ।
व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुता-
स्त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ॥ ५ ॥
 
भवदिति । उच्चैः पूर्वस्माद् विशिष्टबहुसाधनोपबृंहितं बलिं पूजां अददुः।
व्यधुर्विदधिरे । त्वं शैलात्मा शैलवदतिमहद् वपुगृहीत्वा आभीराणां गोपानां पुरतः
शैलोऽस्मि प्रसन्नोऽस्मीति ब्रुवन् बलिमादः अभुङ्क्थाः ॥ ५ ॥
 
अवोचश्चैवं तान् किमिह वितथं में निगदितं
गिरीन्द्रो नन्वेष स्ववलिमुपभुङ्क्ते स्ववपुषा ।
अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं
समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥ ६ ॥
 
अवोच इति । रूपान्तरेण गोपसमूहस्थश्च त्वं तान् गोपानेवं वक्ष्यमाणप्र-