This page has been fully proofread once and needs a second look.

नारायणीये
 
[स्कन्धः - १०
 
इतीति । धिग् अहो अन्धपरम्परा महतां मनोऽपि स्पृशति, यतो मघ-

वजनिता बृष्टिरित्येतन्नो सत्यम् । यद् यस्माज्जीवानामदृष्टं कर्मफलं खलु वृष्टिं

सृजति, न मघवा । सोऽप्यदृष्टेनैवैन्द्रं पद्माप्तः । अत्र हेतुमाह - -महारण्य इति ।

अकृतेन्द्रयागानां वृक्षाणामपि वृष्टिकृतयोगक्षेमदर्शनादित्यर्थः ॥ ३ ॥
 
२१८
 

 
इदं तावत् सत्यं यदिह पशवो नः कुलधनं

तदाजीव्यायासौ वलिरचलभर्त्रे समुचितः ।

सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले
 

ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनान् ॥ ४ ॥
 

 
इदमिति । यदिहोक्तं पशवो नः कुरु<flag>ल</flag>धनमिति, तदिदं तावत् सत्यम् ।

अतस्तदाजीव्याय तृणसलिलसम्पत्तयेऽसौ प्रारब्धो बलिरचलभर्त्रे गोवर्धनाय,

यतोऽचलो नस्तृणं जलं च ददाति, अतः समुचितः । किञ्च धरणिदेवा ब्राह्मणाः,

अतस्तेऽप्याराध्याः पूजनीया इति जगदिथ ॥ ४ ॥
 

 
भवद्रावाचं श्रुत्वा वहुमतियुतास्तेऽपि पशुपा

द्विजेन्द्रानर्चन्तो वलिमददुरुच्चैः क्षितिभृते ।

व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुता-

स्त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ॥ ५ ॥
 

 
भवदिति । उच्चैः पूर्वस्माद् विशिष्टबहुसाधनोपबृंहितं बलिं पूजां अददुः।

व्यधुर्विदधिरे । त्वं शैलात्मा शैलवदतिमहद् वपुर्गृहीत्वा आभीराणां गोपानां पुरतः

शैलोऽस्मि प्रसन्नोऽस्मीति ब्रुवन् बलिमादः अभुङ्क्थाः ॥ ५ ॥
 

 
अवोचश्चैवं तान् किमिह वितथं मेंमे निगदितं

गिरीन्द्रो नन्वेष स्वलिमुपभुङ्क्ते स्ववपुषा ।

अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं

समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥ ६ ॥
 

 
अवोच इति । रूपान्तरेण गोपसमूहस्थश्च त्वं तान् गोपानेवं वक्ष्यमाणप्र-