This page has not been fully proofread.

दशकम् – ६२]
 
इन्द्रयागविघातवर्णनम् ।
 
२१७
 
निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः ।
प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश ! निरुन्धि मे गढ़ान् ॥ १० ॥
 
निरूप्येति । निजं दोषमङ्गनाजने भक्तिं च निरूप्य प्रबुद्धं तत्त्वं यैस्तै-
द्विजैरभिष्टुतः ॥ १० ॥
 
इति यज्वपत्त्युद्धरणवर्णन मेकषष्टितमं दशकम् ।
 
कदाचिद् गोपालान् विहितमखसम्भारविभवान्
निरीक्ष्य त्वं शौरे ! मघवमदमुद्ध्वंसितुमनाः ।
विजानंन्नप्येतान् विनयमृदु नन्दादिपशुपा-
नपृच्छ: को वायं जनक ! भवतामुद्यम इति ॥ १ ॥
 
कदाचिदिति । विहिता उपार्जिता मखसम्भारविभवा इन्द्रयागसाधनरू-
पपदार्था यैस्तानेतान् नन्दादिपशुपान् विनयेन मृदु अनुद्धतं यथा भवति तथा
अपृच्छः ॥ १ ॥
 
वभाषे नन्दस्त्वां सुत ! ननु विधेयो मघवतो
 
मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् ।
नृणां वर्षायतं निखिलमुपजीव्यं महितले
 
विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥ २ ॥
 
वभाष इति । उपजीव्यं सस्यादि । अस्माकं पशुवृत्तीनां विशेषाद्, यत-
स्तृणसलिलजीवनाः पशवः ॥ २ ॥
 
इति श्रुत्वा वाचं पितुरयि भवानाह सरसं
 
धिगेतन्नो सत्यं मघवजनिता दृष्टिरिति यत् ।
अदृष्टं जीवानां सृजति खलु दृष्टिं समुचितां
 
महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥ ३॥