This page has been fully proofread once and needs a second look.

दशकम् – ६२]
 
इन्द्रयागविघातवर्णनम् ।
 
२१७
 
निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः ।

प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश ! निरुन्धि मे गढ़ादान् ॥ १० ॥
 

 
निरूप्येति । निजं दोषमङ्गनाजने भक्तिं च निरूप्य प्रबुद्धं तत्त्वं यैस्तै-

र्
द्विजैरभिष्टुतः ॥ १० ॥
 

 
इति यज्वपत्त्न्युद्धरणवर्णन मेकषष्टितमं दशकम् ।
 

 
कदाचिद् गोपालान् विहितमखसम्भारविभवान्

निरीक्ष्य त्वं शौरे ! मघवमदमुद्ध्वंसितुमनाः ।

विजानंन्नप्येतान् विनयमृदु नन्दादिपशुपा-

नपृच्छ: को वायं जनक ! भवतामुद्यम इति ॥ १ ॥
 

 
कदाचिदिति । विहिता उपार्जिता मखसम्भारविभवा इन्द्रयागसाधनरू-

पपदार्था यैस्तानेतान् नन्दादिपशुपान् विनयेन मृदु अनुद्धतं यथा भवति तथा

अपृच्छः ॥ १ ॥
 

 
भाषे नन्दस्त्वां सुत ! ननु विधेयो मघवतो
 

मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् ।

नृणां वर्षायत्तं निखिलमुपजीव्यं महितले
 

विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥ २ ॥
 

 
भाष इति । उपजीव्यं सस्यादि । अस्माकं पशुवृत्तीनां विशेषाद्, यत-

स्तृणसलिलजीवनाः पशवः ॥ २ ॥
 

 
इति श्रुत्वा वाचं पितुरयि भवानाह सरसं
 

धिगेतन्नो सत्यं मघवजनिता दृवृष्टिरिति यत् ।

अदृष्टं जीवानां सृजति खलु दृवृष्टिं समुचितां
 

महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥ ३॥