This page has not been fully proofread.

२१६
 
नारायणीये
 
[स्कन्धः - १०
 
निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः ।
इति स्मिता भवतोरेता गतास्ते दारका दारजनं ययाचिरे ॥ ५ ॥
 
निवेदयध्वमिति । इमा यज्वपत्न्यः अन्नं दिशेयुर्दधुरितीरिता उक्तास्ते
दारकाः कुमारा दारजनं गृहिणीजनं ययाचिरे याचितवन्तः ॥ ५ ॥
 
गृहीतनानि त्वयि सम्भ्रमाकुलाचतुर्विधं भोज्यरसं प्रगृह्य ताः ।
चिरं तत्वमविलोकनाग्रहाः स्त्रकैर्निरूद्धा अपि तूर्णमाययुः ॥ ६ ॥
 
गृहीताते । गृहीतनाम्नि कृष्णोऽस्तन्मुखेन भक्तीरोदनं याचत इति त्वन्ना-
मश्रवणमात्र एव ता दारजनाश्चतुर्विधं भोज्यखाद्यपेयलेह्यरूपं भोज्यरसं रसवद्
भोज्यम् । स्वकैर्भर्त्रादिभिर्निरुद्धा अपि तूर्गमायपुः ॥ ६ ॥
 
विलोलपिञ्छ चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते ।
निधाय बाहुं सुहृदंससीमान स्थितं भवन्तं समलोकयन्त ताः ॥७॥
विलोलेति । ईक्षिते कटाक्षे आई वात्सल्यातिशय जनितानन्दजला-
द्रम् ॥ ७ ॥
 
तदा च काचित् त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना ।
तदैव सञ्चिन्त्य भवन्तमञ्जता विवेश कैवल्यमहो कृतिन्यसौ ॥ ८ ॥
 
तदेति । तदा इतरासु प्रस्थितासु काचिद् यज्वपत्नी त्वदुपगमे उद्यता
यज्वना गृहीतहस्ता पापे! किमिदं प्रतिकूलाचरणमिति प्रतिरुद्धा भवन्तं सञ्चिन्त्य
निरतिशयभवत्सङ्कल्पसुखानुभवेन भवद्विरहजनितसन्ताप दुःखानुभवेन च क्षीणसु
कृतदुष्कृता अञ्जसानायासेन कैवल्यं मोक्षं विवेश । कृतिनी भाग्यवतीं ॥ ८ ॥
 
आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसहयोज्झतीगृहम् ।
विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्तनपि तास्वगर्हणान् ॥ ९ ॥
 
आदायेति । त्वदङ्गसङ्गस्पृहया त्वया सह रिरंसया गृहं सानुबन्धमुज्झती-
स्त्यजतीः विलोक्यानुगृह्य तास्वगर्हणान् बहुमानयुक्तांश्चकर्थ ॥ ९ ॥