This page has been fully proofread once and needs a second look.

२१६
 
नारायणीये
 
[स्कन्धः - १०
 
निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः ।

इति स्मिता भवतोरेर्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे ॥ ५ ॥
 

 
निवेदयध्वमिति । इमा यज्वपत्न्यः अन्नं दिशेयुर्दधुद्युरितीरिता उक्तास्ते

दारकाः कुमारा दारजनं गृहिणीजनं ययाचिरे याचितवन्तः ॥ ५ ॥
 

 
गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः ।

चिरं तत्वमधृतत्वत्प्रविलोकनाग्रहाः स्त्रकैर्निरूद्धा अपि तूर्णमाययुः ॥ ६ ॥
 

 
गृहीतातेति । गृहीतनाम्नि कृष्णोऽस्<flag>म</flag>न्मुखेन भक्तीरोदनं याचत इति त्वन्ना-

मश्रवणमात्र एव ता दारजनाश्चतुर्विधं भोज्यखाद्यपेयलेह्यरूपं भोज्यरसं रसवद्

भोज्यम् । स्वकैर्भर्त्रादिभिर्निरुद्धा अपि तूर्मायपुःयुः ॥ ६ ॥
 

 
विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते ।

निधाय बाहुं सुहृदंससीमानमनि स्थितं भवन्तं समलोकयन्त ताः ॥७॥

 
विलोलेति । ईक्षिते कटाक्षे आर्द्रं वात्सल्यातिशय जनितानन्दजला-

र्
द्रम् ॥ ७ ॥
 

 
तदा च काचित् त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना ।

तदैव सञ्चिन्त्य भवन्तमञ्जतासा विवेश कैवल्यमहो कृतिन्यसौ ॥ ८ ॥
 

 
तदेति । तदा इतरासु प्रस्थितासु काचिद् यज्वपत्नी त्वदुपगमे उद्यता

यज्वना गृहीतहस्ता पापे! किमिदं प्रतिकूलाचरणमिति प्रतिरुद्धा भवन्तं सञ्चिन्त्य

निरतिशयभवत्सङ्कल्पसुखानुभवेन भवद्विरहजनितसन्ताप दुःखानुभवेन च क्षीणसु
-
कृतदुष्कृता अञ्जसानायासेन कैवल्यं मोक्षं विवेश । कृतिनी भाग्यवतींती ॥ ८ ॥
 

 
आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् ।

विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्तॄनपि तास्वगर्हणान् ॥ ९ ॥
 

 
आदायेति । त्वदङ्गसङ्गस्पृहया त्वया सह रिरंसया गृहं सानुबन्धमुज्झती-

स्त्यजतीः विलोक्यानुगृह्य तास्वगर्हणान् बहुमानयुक्तांश्चकर्थ ॥ ९ ॥