This page has been fully proofread once and needs a second look.

दशकम् - ६१]
 
यज्वपत्न्युद्धरणवर्णनम् ।
 
इति नन्वनुगृह्य बल्लवीर्विपिनान्तेषु पुरेव सञ्चरन् ।

करुणाशिशिरो हरे ! हर त्वरया मे सकलामयावलिम् ॥ ११ ॥

 
इतीति । करुणया भक्तवात्सल्येन शिशिर आर्द्रहृदयः ॥ ११ ॥

 
इति गोपीवस्त्रापहारवर्णनं षष्टितमं दशकं सैकम् ।
 
२१५
 

 
ततश्च बृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः ।

हृदन्तरे भक्ततरद्विजाङ्गनाकदम्बकानुग्रहणाग्रहं वहन् ॥ १ ॥
 

 
तत इति । बृन्दावनतो बृन्दावनादतिदूरतोऽतिदूरे ॥ १ ॥
 

 
ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् ।

अदूरतो यज्ञपरान् द्विजान् प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥
 

 
तत इति । अशरणे गृहरहिते किशोरलोकं बालजनं तृषा पिपासया

क्षुधा चाकुलम् । अदृदूरतस्तत्प्रदेशात् समीपे यज्ञरान् कर्मप्रधानतया भक्ति-

ज्ञानविमुखान् दीदिवियाचनायान्नयाचनाय तान् गोपान् व्यसर्जयः प्रेषयामा-

सिथ ॥ २ ॥
 

 
गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो ! ।

श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ॥ ३ ॥
 

 
गतेष्विति । तेऽभिधां कृष्णो व ओदनं याचत इति तव नामाभिधाय ।

श्रुतौ स्थिरा निश्चितबुद्धयोऽप्यश्रुतिं श्रवणाभावमभिनिन्युरभिनीतवन्तः । महीसुरो-

त्तमा ब्राह्मश्रेष्ठम्मन्याः किञ्चिद् दास्यामि नेति वा नोचुरपि ॥ ३ ॥
 

 
अनादरात् खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वषु ।
सु।
चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं खायत्वयि तैः समर्प्यते ॥४॥
 

 
अनादरादिति । यज्वसु यायजूकेष्विदमर्थिनिराकरणं युक्तम् । भक्त-

मन्नम् ॥ ४ ॥