This page has not been fully proofread.

नारायणीये
 
[ स्कन्धः- १.
 
दिङ्मात्रं प्रदर्शितामेति । *ननु भक्तियोगपरतया भक्तैरादरणयिमिदमित्युक्तम् ।
अथ केयं भक्तिर्नाम । उच्यते । उपायपूर्वकं भगवति मनसः स्थिरीकरणं भक्तिः ।
स च भक्तिरसो विहिताविहितकर्मज्ञानमिश्रादिभेदेन बहुधा । पुनरपि शृङ्गाराद्यु-
पायभेदान्नवधेति बोप्पदेवः । अन्ये त्वेवं भक्तावपि वाच्यमिति वदन्तो भक्तेररस-
तामाचक्षते । तथाहि - भक्तिर्न रसः, रसलक्षणाभावाद्,
 
"विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
 
आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥"
इति हि रसलक्षणम् । यथा शृङ्गारादिरसे रत्यादिः स्थायी भावः । नायिकानायक-
चन्द्रमन्दानिलादयो विभावाः । कटाक्षवीक्षणादयोऽनुभावाः । स्तम्भस्वेदादयः
सात्त्विकाः । निर्वेदग्लान्यादयो व्यभिचारिणैः । एवंविधविभावादिसंयोगाभावान्न
भक्ती रसतामापद्यत इति, मैवम्, अत्रापि रससामग्रीसद्भावात् । केनाप्युपायेन
श्रीकृष्णे मनोनिवेशः स्थायी भाव: । 'तस्मात् केनाप्युपायेन मनः कृष्णे निवेश-
येद्' (स्क. ७. अ. १. श्लो. ३१.) इति श्रीभागवतवचनात् । तत्रोपायो नवधा ।
तदुक्तं बोप्पदेवेन 'भक्तिरसस्यैव हास्यशृङ्गारकरुणरौद्रभयान कबीभत्सशान्ताद्भुतवी-
ररूपेणानुभवाद्' इति, 'व्यासादिभिः कविभिर्वर्णितस्य विष्णोर्विष्णुभक्तानां वा
चरित्रस्य नवरसात्मकस्य श्रवणादिना जनितश्चमत्कारो भक्तिरस' इति च । अत
एते भगवति प्रयुज्यमाना भक्तिरसतामापद्यन्ते । गोविन्दो गोप्यश्चालम्बनविभावाः ।
चन्द्रैमन्दानिलचरित्रश्रवणादय उद्दीपनविभावाः । कटाक्षवीक्षणस्तम्भस्वेदादयोऽनु-
भावाः । निर्वेदग्लानिशङ्कावृत्यादयो यथायोगं व्यभिचारिणः । एवं सामग्री-
सद्भावेऽपि भक्तेर्बहिष्करणं स्वयं भक्तिरसास्वादबहिरङ्गतामात्रशरणम् । नच वाच्य-
मसर्वविषयत्वाद् भक्ते रसपदव्यनारोह इति । तथाच श्रोत्रियब्रह्मचार्याद्यविषयतया
शृङ्गारादीनामप्यरसतापातादिति सिद्धं भक्ते रसत्वम् । एवंविधभक्त्यनुर्भवाद्
भक्ता अपि नवविधाः ।
 
"गोप्यः क्यमाद् भयात् कंसो द्वेषाच्चैद्यादयो नृपाः ।
सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ! ॥"
 
(स्क. ७. अ. १. श्लो. ३०.)
 
१. 'णश्च । ए' क. पाठ:. २. 'भा' ग. पाठः. ३. 'न्द्रातपच' क. पाठ:
५. 'भा' ग. प.
 
पाठ:.
 
४. 'णश्च'
 
*
 
'ननु' इत्यारभ्य 'सुगमम्' इत्यन्तं तृतीय श्लोकव्याख्यानमध्ये ' उपरिस्थमुपादीयते' इत्ये-
तदन्तं व्यतिक्षिप्तं मुद्रितपुस्तके ।