This page has been fully proofread once and needs a second look.

२१४
 
नारायणीये
 
[ स्कन्धः - १०
 
मृदु स्मितं यस्मिंस्तस्मिंस्त्वयि ब्रुवति सति वधूजनैर्व्यामुमुहे तत् कर्तुं मा मैवमिति

वदितुमप्यसमर्था बभूवुरित्यर्थः ॥ ६ ॥
 
मृदु
 
आये

 
अयि
जीव चिरं किशोर ! नस्तव दासीरवशीकरोषि किम् ।

प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥ ७॥
 

 
अयीति । अयि किशोर! कुमारक! त्वं चिरं जीव, तब दासीः प्रोक्त-

कारिणीर्नः किं किमर्थमवशीकरोषि परवशाः करोषि, अम्बरं प्रदिश देहीत्यु -

दितो याचितस्त्वं स्मितमेव दत्तवान् नाम्बरमपि । आये किशोर! अप्राप्तविवाह!
तत्र

तव
दासीः प्रेमार्हाः किमवशीकरोषि वशीकुरु परिगृहाण, अम्बरं प्रदिश, नः

पतिस्त्वं, हे अम्बुजेक्षण! त्वत्कटाक्षविरहे वयं पराधीनजीविता इति साभिप्रा
-
यमिवोदितत्वात् त्वं तदनुमोदनरूपं मन्दस्मितं दत्तवान् ॥ ७ ॥
 

 
अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः ।

वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥ ८ ॥
 

 
अधिरुह्येति । परिशुद्धाः त्वन्नमनरूपप्रायश्चित्ताद् विवस्त्राप्लवनरूपत्व्रत-

भङ्गदोषान्निवृत्ताः स्वगतीरात्मशरणाः । अनुग्रहरूपामेवं वक्ष्यमाणरूपां गिरमप्यदाः

दत्तवान् ॥ ८ ॥
 

 
विदितं ननु वो मनीषितं वदितार स्त्विह योग्यमुत्तरम् ।

यमुनापुलिने सचन्द्रिकाः क्षणदा इत्यवलास्त्वमूचिवान् ॥ ९ ॥
 

 
विदितमिति । मनीषितं सङ्कल्पः । इह वो मनीषिते योग्यमुत्तरं तथा-

स्त्विति इदानीं नाहं वदामि । किन्तु यमुनापुलिने सचन्द्रिकाः क्षणदा भवतीभ्यो

योग्यमुत्तरं केवलं क्रिययैव वदितारो वदिष्यन्तीति ॥ ९ ॥
 

 
उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः ।

प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥ १० ॥

 
उपकर्ण्येति । उपकर्ण्य श्रोत्राञ्जलिभिः पीत्वा ॥ १० ॥