2023-04-17 07:42:46 by Padmavati
This page has been fully proofread once and needs a second look.
गोपीवस्त्रापहारवर्णनम् ।
यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥ १ ॥
मदनेति । सैकतीं सिकताम
तव नामकथारताः समं सुदृशः प्रातरुपागता नदीम् ।
उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥ २ ॥
तवेति । तव नाम्नि कथायां च रता नाम कीर्तयन्त्यः कथाः कथयन्त्यश्च
समं सम्भूयोपहारशतैर्जलगन्धपुष्पधूपादिभिर्नन्दसुतो दयितो भवेदिति प्रार्थयन्त्य
इति शेषः ॥ २ ॥
इति मासमुपा
करुणामृदुलो नदीतटं समयासीत् तदनुग्रहेच्छया ॥ ३ ॥
इतीति । उपाहित
नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा ।
यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥ ४ ॥
२१३
नियमेति । नियमावसितौ व्रतावसाने निजाम्बरमवमुच्य नग्ना यमुनायां
जलखेलन उदकवाद्यादावाकुलाश्चलिताः ॥ ४ ॥
त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके ।
निहितं परिगृह्य भूरुहो विटपं तं तरसाधिरूढवान् ॥ ५ ॥
त्रपयेति । त्रपया दयितसन्निधौ विवस्त्रताजनितलज्जया । भूरुहो वृक्ष-
स्य ॥ ५ ॥
इह तावदुपेत्य नीयतां वसनं वः सुदृशो ! यथायथम् ।
इति नर्ममृदुस्मिते त्वयि ब्रुवति व्यामुमुहे वधूजनैः ॥ ६ ॥
इहेति । हे सुदृशः ! इहोपेत्य वो वसनं यथायथं स्वं स्वं नीयताम् । नर्मणा