This page has been fully proofread once and needs a second look.

नारायणीये
 
निर्विशङ्कभवदङ्गदर्शिनी: खेचरी: खगमृगान् पशूनपि ।

त्वत्पदप्रणयि काननं च ता धन्यधन्यमिति नन्वमानयन् ॥ ७ ॥
 
२१२
 

 

 
निर्विशङ्केति । निर्विशङ्कभवदङ्गदर्शिनीस्तिरस्कृतशरीरतया सन्निहिततया

निमेषरहिततया च नित्यं भवदङ्गप्रत्यङ्गदर्शनशीलाः । त्वत्पदप्रणयि भवत्पदाम्बु-

जसंसर्गि काननमपि धन्यधन्यम् अतिशयेन भाग्यवदिति ता व्रजस्थाः पशुपा-

ङ्ग
ना अमानयन् ॥ ७ ॥
 
[स्कन्धः - १०
 

 
आपिवेबेयमधरामृतं कढ़ादा वेणुभुक्तरसशेषमेकदा ।

दूरतो त कृतं दुराशयेत्याकुला मुहुरिमा: समामुहन् ॥ ८ ॥
 

 
आपिबेयमिति । वेणुना भुक्तो रसविशेषो यस्मिन् तदधरामृतम् । तद्

दूरतोऽस्माकं न सम्भवति । तत्र दुराशया कृतमलम् । समामुहन् सम्मुमुहुः ॥ ८ ॥
 

 
प्रत्यहं च पु[^१]नरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् ।

बद्धरागविवशास्त्वयि प्रभो ! नित्यमापुरिह कृत्यमूढताम् ॥ ९ ॥
 

 
प्रत्यहमिति । अनुग्रहाद्[^२] न तूपद्रवात् । कुतः, यतस्त्वयि बद्धरागवि-

वशाः शृङ्गाराख्यप्रेमलक्षणभक्तिविवशा इह कृत्यमूढताम् इदं मयैव कर्तव्यमित्य-

वधारणविधुरतामापुः ॥ ९॥
 

 
रागस्तावज्जायते हि स्वभावान्मोक्षोपायो यत्तः स्यान्न वा स्यात् ।

तासां त्वेकं तद् द्वयं लब्धमासीद् भाग्यं भाग्यं पाहि मां मारुतेश ! ॥१०॥
 

 
राग इति । रागस्तावत् स्त्रीणां पुंसां वा मिथ: स्वभावादेव जायते ।

मोक्षोपायस्त्वीश्वरे प्रेम केषाञ्चिदेव प्रयत्नतः स्याद्वा न वा । तासां ब्व्रजाङ्गनानां

तद्
द्वयं कामसुखदं कान्तप्रेम मोक्षसुखदमीश्वरप्रेम चैकं लब्धमासीद्, एकस्य

कृष्णस्यैव कान्तत्वादीश्वरत्वाच्च । अहो भाग्यं भाग्यम् ॥ १० ॥
 

 
इति वेणुगानवर्णनम् एकोनषष्टितमं दशकम् ।
 

 
[^
]. 'मुहुरि' क. पाठः
[^२]
.
 
२.
'न्निरुप' ख. ग. पाठ:.
 
"
 
ठः