2023-02-16 08:52:29 by ambuda-bot
This page has not been fully proofread.
वेणुगानवर्णनम् ।
मन्मथोन्मथितमानसाः
क्रमात् त्वद्विलोकनरतास्ततस्ततः ।
गोपिकास्तव न सेहिरे हरे ! काननोपगतिमप्यहर्मुखे ॥ २ ॥
दशकम् – ५९]
मन्मथेति । गोपिकास्ततस्ततः पुनः पुनः क्रमाद् दिनं प्रति सक्रमोत्क-
र्षम् । अहर्मुखेऽपि न सर्वदा, काननोपगतिमपि न विदूरगमनं, न सेहिरे न मर्षि -
तवत्यः ॥ २ ॥
निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।
वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥ ३ ॥
२११
निर्गत इति । निर्गते प्रस्थिते भवति त्वाय दत्ता निक्षिप्ता दृष्टयो यासाम्
अत एव त्वद्गतेन मनसा त्यक्तगृहकृत्या दूरतोऽपि वेणुनाद।कर्ण्या
त्वद्विलासस्य कथयान्योन्यकथनेनाभिरेमिरे कालं निन्युः ॥ ३ ॥
काननान्तमितवान् भवानपि स्निग्धपादपतले मनोरमे ।
व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥ ४ ॥
काननान्तमिति । व्यत्ययेन व्यत्यासेनाकलितौ घृतौ पादौ यस्मिंस्तथा
आस्थितो वेणुनालिकां प्रत्यपूरयत ॥ ४ ॥
मारवाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् ।
द्रावणं च दृषदामपि प्रभो! तावकं व्यजनिं वेणुकूजितम् ॥ ५ ॥
मारेति । धुतं जनितकम्पस्वेदादिकं खेचरीकुलं येन । दृषदामुपलानामपि
द्रावणं द्रवणसाधनं व्यजनि जातम् ॥ ५ ॥
वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चालितपादपल्लवम् ।
तत्
स्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहुर्वजाइनाः ॥ ६ ॥
वेण्विति । ब्रजाङ्गना गोप्यस्तद् व्यत्यस्तपादं तव स्थितमवस्थानं परोक्ष-
मप्रत्यक्षमपि संविचिन्त्य मुमुहुः ॥ ६ ॥