This page has been fully proofread once and needs a second look.

वेणुगानवर्णनम् ।
 
मन्मथोन्मथितमानसाः
 
क्रमात् त्वद्विलोकनरतास्ततस्ततः ।

गोपिकास्तव न सेहिरे हरे ! काननोपगतिमप्यहर्मुखे ॥ २ ॥
 
दशकम् – ५९]
 

 
मन्मथेति । गोपिकास्ततस्ततः पुनः पुनः क्रमाद् दिनं प्रति सक्रमोत्क-

र्षम् । अहर्मुखेऽपि न सर्वदा, काननोपगतिमपि न विदूरगमनं, न सेहिरे न मर्षि -
 

तवत्यः ॥ २ ॥
 

 
निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।

वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥ ३ ॥
 
२११
 

 
निर्गत इति । निर्गते प्रस्थिते भवति त्वाय दत्ता निक्षिप्ता दृष्टयो यासाम्

अत एव त्वद्गतेन मनसा त्यक्तगृहकृत्या दूरतोऽपि वेणुनादमु<flag>प</flag>कर्ण्या
य श्रुत्वा
त्वद्विलासस्य कथयान्योन्यकथनेनाभिरेमिरे कालं निन्युः ॥ ३ ॥
 

 
काननान्तमितवान् भवानपि स्निग्धपादपतले मनोरमे ।

व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥ ४ ॥

 
काननान्तमिति । व्यत्ययेन व्यत्यासेनाकलितौ घृतौ पादौ यस्मिंस्तथा

आस्थितो वेणुनालिकां प्रत्यपूरयत ॥ ४ ॥
 

 
मारवाबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् ।
 

द्रावणं च दृषदामपि प्रभो! तावकं व्यजनिं वेणुकूजितम् ॥ ५ ॥
 

 
मारेति । धुतं जनितकम्पस्वेदादिकं खेचरीकुलं येन । दृषदामुपलानामपि

द्रावणं द्रवणसाधनं व्यजनि जातम् ॥ ५ ॥
 

 
वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चालितपादपल्लवम् ।
 
तत्
 

तत्
स्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहुर्व्रजाङ्गनाः ॥ ६ ॥
 

 
वेण्विति । ब्व्रजाङ्गना गोप्यस्तद् व्यत्यस्तपादं तव स्थितमवस्थानं परोक्ष-

मप्रत्यक्षमपि संविचिन्त्य मुमुहुः ॥ ६ ॥