This page has not been fully proofread.

२१०
 
नारायणीये
 
[स्कन्धः - १०
 
विलासयुक्तम् । सन्तापशान्त्या सस्यसम्पत्त्या वा हर्षदाम् । क्षितिधरकुहरेषु गोव-
र्धनगुहासु स्वैरवासी क्रीडन् व्यनैषीः ॥ ८ ॥
 
कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः
 
शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी ।
स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च
प्रविदधदनुभेजे देव ! गोवर्धनोऽसौ ॥ ९ ॥
 
कुहरेति । कुहरतलनिविष्टमात्मगुहाश्रितं गरिष्ठं महानुभावं त्वामीश्वरं
गिरन्द्रिो गोवर्धनः शिखिकुलानां नवा वर्षारम्भोगताः केकास्तद्रवा एव काकबो
भक्त्यतिशयजनितोक्तिविशेषास्ताभिः स्तोत्रकारी स्फुटानां विकसितानां कुटजानां
गिरिमल्लिकाकुसुमानां कदम्बकुसुमानां (च) स्तोमेन समूहेन पुष्पाञ्जलिं प्रविदधत्
कुर्वन्ननुभेजे उपासाञ्चक्रे ।॥ ९ ॥
 
अथ शरदमुपेतां तां भवद्भक्तचेतो-
विमलसलिलपूरां मानयन् काननेषु ।
तृणममलवनान्ते चारु सञ्चारयन् गाः
पवनपुर पते ! त्वं देहि मे देहसौख्यम् ॥ १० ॥
 
अथेति । भवद्भक्तचेतोवद् विमलः सलिलपूरो यस्यां तामभिसरन्तीं
नायिकामियोपेतां शरदं मानयन् । तृणं सञ्चारयन् भक्षयन् । मे देहसाख्यमारो-
ग्यम्, अथवा देहसौख्यं विदेहकैवल्यम् ॥ १० ॥
 
इति गोगोपानां दावाग्निमोक्षवर्णनम् ऋतुवर्णमं च
अष्टपञ्चाशं दशकम् ।
 
त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् ।
ब्रह्म तत्त्वपरचिन्दात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥ १ ॥
 
त्वदिति । त्वद्वपुर्ब्रत तच्च तत्व पर चिन्मुदात्मकं सच्चिदानन्दात्मकम् ।
 

 
अतः प्रेमदोहनं रागवर्धनम् । स्त्रियो गोप्यः सम्मुमुहुः ॥ १ ॥