This page has been fully proofread once and needs a second look.

२१०
 
नारायणीये
 
[स्कन्धः - १०
 
विलासयुक्तम् । सन्तापशान्त्या सस्यसम्पत्त्या वा हर्षदाम् । क्षितिधरकुहरेषु गोव-

र्धनगुहासु स्वैरवासी क्रीडन् व्यनैषीः ॥ ८ ॥
 

 
कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः
 

शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी ।

स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च

प्रविदधदनुभेजे देव ! गोवर्धनोऽसौ ॥ ९ ॥
 

 
कुहरेति । कुहरतलनिविष्टमात्मगुहाश्रितं गरिष्ठं महानुभावं त्वामीश्वरं

गिरीन्द्रिोरो गोवर्धनः शिखिकुलानां नवा वर्षारम्भोद्गताः केकास्तद्रवा एव काकबो
वो
भक्त्यतिशयजनितोक्तिविशेषास्ताभिः स्तोत्रकारी स्फुटानां विकसितानां कुटजानां

गिरिमल्लिकाकुसुमानां कदम्बकुसुमानां (च) स्तोमेन समूहेन पुष्पाञ्जलिं प्रविदधत्

कुर्वन्ननुभेजे उपासाञ्चक्रे ।॥ ९ ॥
 

 
अथ शरदमुपेतां तां भवद्भक्तचेतो-

विमलसलिलपूरां मानयन् काननेषु ।

तृणममलवनान्ते चारु सञ्चारयन् गाः

पवनपुर पते ! त्वं देहि मे देहसौख्यम् ॥ १० ॥
 

 
अथेति । भवद्भक्तचेतोवद् विमलः सलिलपूरो यस्यां तामभिसरन्तीं

नायिकामियोवोपेतां शरदं मानयन् । तृणं सञ्चारयन् भक्षयन् । मे देहसाख्यमारो-

ग्यम्, अथवा देहसौख्यं विदेहकैवल्यम् ॥ १० ॥
 

 
इति गोगोपानां दावाग्निमोक्षवर्णनम् ऋतुवर्णमंनं

 
अष्टपञ्चाशं दशकम् ।
 

 
त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् ।

ब्रह्म तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥ १ ॥
 

 
त्वदिति । त्वद्वपुर्ब्रत तच्च तत्व पर चिन्मुदात्मकं सच्चिदानन्दात्मकम् ।
 

 

अतः प्रेमदोहनं रागवर्धनम् । स्त्रियो गोप्यः सम्मुमुहुः ॥ १ ॥