2023-02-16 08:52:28 by ambuda-bot
This page has not been fully proofread.
दशकम् - १८]
ऋतुवर्णनम् ।
२०९
ववृतिरे स्थिता आसन् । भगवता योगैश्वर्येण पूर्वस्थानं नीतास्त इति ज्ञात-
व्यम् ॥ ५ ॥
जय जय तव माया केयमशेति तेषां
नुतिभिरुदितहासो बद्धनानाविलासः ।
पुनरपि विपिनान्ते प्राचर: पाटलादि-
प्रसवनिकरमात्र ग्राह्य धर्मानुभावे ॥ ६ ॥
जयेति । हे ईश! जय जय लोकोत्तरो भूयाः । केयं तव माया, यत
ऐषीकस्था वयं मीलिताक्षाः सन्तो भाण्डीरवटमूलस्थाः स्मः । पाटलेति । पाटल-
शिरीषादितरुकुसुममात्रेण ग्राह्यो घर्मानुभाव ऊष्मा यस्मिंस्तस्मिन् प्राचरः सञ्चर-
णं चकृषे ॥ ६ ॥
त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं
तव भजनवदन्तः पङ्कमुच्छोषयन्तम् ।
तव भुजवदुदञ्चभूरितेजःप्रवाहं
तपसमयमनैषीर्यामुनेषु स्थलेषु ॥ ७ ॥
—
त्वयीति । त्वं यामुनेषु स्थलेषु यमुनातीरेषु क्रीडन् तपसमयं ग्रीष्म-
कालमनैषीः । तपसमयं विशिनष्टि – त्वयीति । त्वयीश्वरे विमुखं सेवारहितमिव
।
तापभारं वहन्तं प्रापयन्तम् । असेवकपक्षे तापभारं चित्तसन्तापं वहन्तं दधतम् । तव
भजनवदन्तर्नद्यादेः मनासे वा पक्कं कर्दमं दुरितं वा । तपसमयपक्षे तेज आतपः
अन्यत्र पराक्रमः ॥ ७ ॥
तदनु जलदजालैस्त्वद्व पुस्तुल्यभाभि-
विकसदमलविद्युत्पीतवासोविलासैः ।
सकलभुवनभाजां हर्षदां वर्षवेलां
क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥ ८ ॥
तदन्विति । त्वद्वपुस्तुल्या भाः श्यामला दीप्तिर्येषाम् । विकसन्त्यः शोभ
माना अमला विद्युत एव पीतं वासस्तद्विलासाः शोभा येषाम् । त्वद्वपुरपि पीतवासो-