2023-04-17 06:06:07 by Padmavati
This page has been fully proofread once and needs a second look.
ऋतुवर्णनम् ।
२०९
व्यम् ॥ ५ ॥
जय जय तव माया केय
नुतिभिरुदितहासो बद्धनानाविलासः ।
पुनरपि विपिनान्ते प्राचर: पाटलादि-
प्रसवनिकरमात्र
जयेति । हे ईश! जय जय लोकोत्तरो भूयाः । केयं तव माया, यत
ऐषीकस्था वयं मीलिताक्षाः सन्तो भाण्डीरवटमूलस्थाः स्मः । पाटलेति । पाटल-
शिरीषादितरुकुसुममात्रेण ग्राह्यो घर्मानुभाव ऊष्मा यस्मिंस्तस्मिन् प्राचरः सञ्चर-
णं चकृषे ॥ ६ ॥
त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं
तव भजनवदन्तः पङ्कमुच्छोषयन्तम् ।
तव भुजवदुदञ्चद्भूरितेजःप्रवाहं
तपसमयमनैषीर्यामुनेषु स्थलेषु ॥ ७ ॥
—
त्वयीति । त्वं यामुनेषु स्थलेषु यमुनातीरेषु क्रीडन् तपसमयं ग्रीष्म-
कालमनैषीः । तपसमयं विशिनष्टि
।
तापभारं वहन्तं प्रापयन्तम् । असेवकपक्षे तापभारं चित्तसन्तापं वहन्तं दधतम् । तव
भजनवदन्तर्नद्यादेः म
अन्यत्र पराक्रमः ॥ ७ ॥
तदनु जलदजालैस्त्वद्व
र्विकसदमलविद्युत्पीतवासोविलासैः ।
सकलभुवनभाजां हर्षदां वर्षवेलां
क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥ ८ ॥
तदन्विति । त्वद्वपुस्तुल्या भाः श्यामला दीप्तिर्येषाम् । विकसन्त्यः शोभ
माना अमला विद्युत एव पीतं वासस्तद्विलासाः शोभा येषाम् । त्वद्वपुरपि पीतवासो-